Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 219
________________ २०० सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् एवं सर्वभङ्गकरचनां नरकप्रस्तारञ्च विधाय नष्टमाश्रित्याह - नटेकाउ य भंगे, सोहिज्जा जत्थ बहुअरा भंगा | संजोगेहिं हर तहिं, लद्धे मुण मूलभंगे अ ।। १९ ।। व्याख्या - 'नटुंकाउ' त्ति नष्टाङ्केभ्यो येऽल्पतरा भङ्गास्तान् शोधयेत्, नष्टाङ्कमध्यानिष्काशयेत्, तावन्निष्काशयेद् यावद्बहुतरा भङ्गा न स्युः, यत्र तु नष्टाङ्काद्भङ्गा बहुतरास्तत्र संयोगैस्तद्भवसंयोगैर्हर भज इति लब्धान् मूलभङ्गान् 'मुण'त्ति जानीहि ।। १९ ।। उद्धरिए संजोगे, जाणिज्जा अहव अंतिपडिआ य। साहारणसंजोगा भंगा जइ इगदुगतिगाई ।। २० ।। व्याख्या - उद्धरितान् संयोगान् जानीयाः, किमुक्तं भवति ? एतावन्तो भङ्गा गताः, वर्तमानो भङ्ग एतावत्परिमाणः संयोगो वर्त्तत इति । 'अहव' त्ति अथवा यदि साधारणसंयोगा भङ्गा अन्त्ये पतिताः । 'इगदुगतिगाई' त्ति एकद्विकत्रिकचतुष्कादिसाधारणभङ्गा अन्त्यपतिताः ।। २० ।। ते तम्मज्झा कड्ढिअ, उद्धरिए मिलिअभंगभइआ य । जाणिज्जा संजोगे, सेसे वि अ जाण भंगे अ ।। २१ ।। इति नष्टकरणगाथात्रयम् ।। व्याख्या - तान् भङ्गान् तल्लब्धमूलभङ्गकमध्यात् 'कड्ढिअ' त्ति निष्कास्योद्धरितान् भङ्गान् मेलयित्वा यावद्भिः साधारणत्वं भवति तावद्भिर्भङ्गभङ्क्त्वा लब्धान् संयोगान् जानीहि, शेषानुद्धरितान् संयोगान्तर्गतभङ्गान् जानीहि, चशब्दादादावपि साधारणसंयोगा भवन्ति, तत्र तैर्तृत्वा संयोगान् भङ्गान् जानीहि । अष्टप्रवेशमाश्रित्योदाहरणं यथा केनापि पृष्टं सैकोननवतिकाष्टादशशततमो भङ्गः स कीदृशो भवति ? तदैतावन्मध्याद्भङ्गाः ७ असंयोगिकाः, द्विकसंयोगे १४७, त्रिकसंयोगे ७३५, एवमष्टशतानि सैकोननवतिकानि ८८९ निष्कासितानि, शेषाः सहस्रं, चतुष्कसंयोगे १२२५ भङ्गाः सन्ति, बहुतरा इति कृत्वाऽत्र सहस्रं संयोगैर्हर इति संयोगाः ३५, पञ्चत्रिंशता ह्रियमाणा लब्धभङ्गाः २८ अतीता गताः,

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242