Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 221
________________ ૨૦૨ सायचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् जइ भंगयसाहारणसंजोगा, जे अ तेहिं गुणिऊण | सेसे भंगे मेलिअ, एगीकाऊण सव्वग्गं ।। २३ ।। व्याख्या - 'जइ' त्ति यदि भङ्गकसाधारणसंयोगाः येऽतीता गतास्तान् संयोगान् तैः साधारणभङ्गर्द्वित्रिचतुरादिसाधारणभङ्गैर्गुणयित्वा शेषान् वर्त्तमानसम्बन्धिन उत्तरभेदान् मेलयित्वा पश्चात्पूर्वमुत्पन्नान् भङ्गान् भङ्गकसाधारणसंयोगाँश्चैकीकृत्य वक्तव्यमेतावत्सङ्ख्याकोऽयं भङ्गः । अष्टप्रवेशमाश्रित्योदाहरणमाह-केनापि पृष्टं २-४-६.५ अयं भङ्गः कतिथः ? तदा गणनीयं, गणने एकोनत्रिशत्तमोऽयं भङ्गो वर्त्तते, कथं ? अष्टाविंशतिर्भङ्गा गतास्ते संयोगगुणाः कर्त्तव्याः पञ्चत्रिंशद्गुणाः कर्त्तव्याः, गुणनाज्जाताः ९८०, विंशतितमः संयोग एकोनत्रिंशत्तमे भङ्गे वर्त्तते, एकत्र करणे जातं सहस्रं पूर्वं येऽतीता ते असंयोगे ७, द्विकसंयोगे १४७, त्रिकसंयोगे ७३५, सर्वएकीकरणे जातानि भङ्गानां १८८९ अष्टादशशतान्येकोननवतिश्च, तदा कथनीयं सैकोननवत्यष्टादशशततमो भङ्गः । यदा केनचित्पृष्टमयं २-३-४-६ भङ्गः कतिथः ? तदाऽत्र भङ्गाः २० गताः, संयोगैर्गुणिताः (३५ गुणिताः) जाताः ७०० एकविंशतितमे भङ्गे षोडशसंयोगा अतीता गतास्ते त्रिसाधारणत्वात् त्रिभिर्गुणिता जाताः ४८, सप्तदशे संयोगे द्वितीयो भङ्गस्ताभ्यां सह जाताः ५०, सप्तशतैः सह जातानि सार्दानि सप्तशतानि ७५०, पूर्वमसंयोगे ७ द्विसंयोगे १४७ त्रिसंयोगे ७३५ अतीतास्तेऽपि ८८९ मध्ये क्षेप्याः सर्वे, जातानि सैकोनचत्वारिंशत्कानि षोडशशतानि, तदा कथनीयमयं सैकोनचत्वारिंशत्कषोडशशततमो भगः । तृतीयमुदाहरणं, केनचित्पृष्टमयं १५ भङ्गः कतिथः ? तदा दृश्यते, अत्र सप्तसंयोगे चतुर्थो भङ्गोऽयं, अत्र षट्संयोगा अतीताः ते षट्साधारणत्वात् षट्गुणाः क्रियन्ते, जाताः ३६, सप्तमे संयोगे चतुर्थो भङ्गो वर्त्तते अतस्तेऽपि मध्ये क्षेप्याः जाताः ४०, तदा कथनीयमयं चत्वारिंशत्तमो भङ्गः, एवं सर्वत्रोद्दिष्टभङ्गा, आनेतव्याः । शेषं सुगमम् । एवं सङ्ख्येयानामसङ्ख्येयानाञ्च संयोगा ज्ञातव्याः । यत्र यत्र ये य उत्पद्यन्ते तत्र तत्र ते त उत्पाद्याः सूत्रादतिविस्तारबाहुल्यान्न लिखिताः । श्रीभगवत्यङ्गनवमशते ३२ द्वात्रिंशत्तमोद्देशकादयमधिकारोऽलेखि ।। २३ ।। १-४-१-२

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242