Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 210
________________ ।। अर्हम् ।।। ।। न्यायाम्भोनिधि -प्रतिभापराभूतवादिवृन्द-श्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः ।। श्रीमन्मेघपण्डितान्तेवासिपण्डितश्रीविजयगणिविरचितं अवचूरिसमेतं ॥ श्रीगाङ्गेयभङ्गप्रकरणम् ॥ वंदित्तु वद्धमाणं, गंगेअसुपुट्ठभंगपरिमाणं । इगजोगे सगभंगा, दुगजोगे भंगइगवीसा || १ ।। व्याख्या - 'वंदितु' त्ति वन्दित्वा वर्द्धमानं गाङ्गेयपृष्टभङ्गपरिमाणं कथ्यत इति । इगजोगे असंयोगे भङ्गाः सप्त सप्त भवन्ति सप्तसु नरकेषु, एकस्मिन्नेकस्मिन द्विकसंयोगे भगाः २१-२१, तद्यथा- प्रथमद्वितीययोः १, प्रथमतृतीययोः २ प्रथमचतुर्योः ३, प्रथमपञ्चम्योः ४, प्रथमषठ्योः ५, प्रथमसप्तम्योः ६, द्वितीयतृतीययोः ७, द्वितीयचतुर्थ्योः ८ द्वितीयपञ्चम्योः ९ द्वितीयषष्ठ्योः १० द्वितीयसप्तम्योः ११, इत्यादिभङ्गप्रस्तारवशाज्ज्ञेयम् । प्रथमनरकेण सह भङ्गाः ६, द्वितीयेन सह भङ्गाः ५, तृतीयेन सह ४, चतुर्थेन सह ३, पञ्चमेन सह २, षष्ठेन सह १, एवं २१ ।। १ ।। तिग चउजोगे पत्तेअ, भंगपणतीस पंचसंजोए । इगवीस य छज्जोए, सगभंगा सत्तए एगो ।। २ ।। व्याख्या - एकस्मिन्नेकस्मिन् त्रिकयोगे चतुष्कयोगे च प्रत्येकं प्रत्येकं भङ्गाः ३५-३५ भवन्ति । त्रिकयोगे यथा-प्रथमद्वितीयतृतीयेषु १, प्रथमद्वितीयचतुर्थेषु २, प्रथमद्वितीयपञ्चमेषु ३, इत्यादिभङ्गप्रस्ताराज्ज्ञेयम् । प्रथमेन सह १५, द्वितीयोन १०, तृतीयेन ६, चतुर्थेन ३, पञ्चमेन १, एवं ३५ । एकस्मिन्नेकस्मिन् चतुर्योगे भङ्गाः ३५-३५, प्रथमद्वितीयतृतीयचतुर्थेषु १, प्रथमद्वितीयतृतीयपञ्चमेषु २, प्रथमद्वितीयतृतीयषष्ठेषु ३, प्रथमद्वितीयतृतीयसप्तमेषु ४, इत्यादि प्रस्तारवशाज्ज्ञेयम् । प्रथमनरकेण सह २०, द्वितीयेन १०, तृतीयेन ४, चतुर्थेन १, एवं ३५ । एकस्मिन्नेकस्मिन् पञ्चयोगे भङ्गाः २१-२१ भवन्ति । प्रथमद्वितीयतृतीयचतुर्थपञ्चमेषु १, इत्यादि प्रस्ताराज्ज्ञेयम् । प्रथमेन सह १५, द्वितीयेन सह ५, तृतीयेन सह १, एवं २१ । एकस्मिन्नेकस्मिन् पटसंयोगे भङ्गाः ७-७, प्र-द्वि-तृ-च-पं-षष्ठेषु 13

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242