Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 148
________________ सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम् ૧૨૯ द्वात्रिंशद्विधानाह - एकैकं स्थूलप्राणातिपातविरमणादिकं व्रतं षड्भिर्विधाभिर्भेदैर्गुणितं प्रतिपन्नोत्तरगुणाऽविरतसम्यग्दृष्टिलक्षणभेदद्विकमिलितं द्वात्रिंशत् । तथाहि-आद्यं व्रतं षड्भङ्गीमध्यात्कश्चिदाद्येन भङ्गेन गृह्णाति, कश्चिद् द्वितीयेनेत्यादिभङ्गाः ६ । एवं मृषावादादिष्वपि प्रत्येकं षट् षड्वाच्याः, मिलिताः ३० । आवश्यके त्वेवम्-कश्चित्पञ्चाणुव्रतानि समुदितान्येव गृह्णाति, तत्र च द्विविधत्रिविधादयः षड्भेदाः । अन्यो व्रतचतुष्टयं गृह्णाति, तत्रापि षट् । यावदन्यस्त्वेकमेवाणुव्रतं गृह्णाति, तत्रापि षट् । एवमावश्यकाभिप्रायेण कृता भङ्गप्ररूपणा। ।।३।। अथ पञ्चत्रिंशदुत्तरसप्तशत-सङ्ख्यान् श्राद्धभेदान् प्रतिपादयन् प्रज्ञप्त्यभिप्रायेण नवभङ्गीमाह - तिन्नि तिआ तिन्नि दुया, तिन्निक्किक्का य हुंति जोगेसु। तिदुइक्कं तिदुइक्कं, तिदुइक्कं चेव करणाई ।।४।। योगेषु करणकारणानुमतिरूपेषु त्रयस्त्रिकाः, त्रयो द्विकाः, त्रय एककाश्च क्रमेण स्थाप्याः, तदधस्ताच्च क्रमेण त्र्यादीनि करणानि मनोवाक्कायलक्षणानि स्थाप्यानि । कोऽर्थः ? कश्चिद्गृही सावद्ययोगं न करोति, न कारयति, नान्यं समनुजानाति, मनसा वाचा कायेन चेत्येको भङ्ग इत्यादिभावः । एवं मूलभङ्गा नव, उत्तरभङ्गास्त्वेकोनपञ्चाशत् । ३३३।२२२।११ ३२|१|३|२१|३|२| दृश्यन्ते, मनसस्तु ताः कथम् ? उच्यते, | १३३ ३९९३ | ९ | ९ निर्व्यापारकायवचनो यदा सावद्ययोगमेनं करोमि, इति मनसा चिन्तयति तदा करणम् । यदा तु मनसा चिन्तयति करोत्वेष सावद्यम्, असावपि चेङ्गितज्ञोऽभिप्रायादेव प्रवर्त्तते तदा कारणम् । यदा तु सावा कृत्वा मनसा चिन्तयति सुष्ठु कृतमिदं मया तदा मानस्यनुमतिः ।।४।। एवं नवभङ्गीं विवृण्वद्भिरस्माभिः प्रसङ्गादेकोनपञ्चाशद्भङ्गी प्रदर्शिता । सम्प्रति प्रकारान्तरेण सूत्रकार एवैनामाह - मणवयकाइयजोगे, करणे कारावणे अणुमईए । इक्कगदुगतिगजोगे, सत्ता सत्तेव इगुवन्ना ।।५।। विभक्तिव्यत्ययात् करणस्य कारणस्यानुमतेश्च मनोवाक्कायैः सह संयोगे सति एककद्विकत्रिकयोगे सप्त सप्तकाः । तथाहि-स्थूलहिंसादिकं न करोति मनसा १ वाचा २ कायेन ३ वा, मनसा वाचा ४, मनसा कायेन ५, वाचा

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242