________________
सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम्
૧૨૯ द्वात्रिंशद्विधानाह - एकैकं स्थूलप्राणातिपातविरमणादिकं व्रतं षड्भिर्विधाभिर्भेदैर्गुणितं प्रतिपन्नोत्तरगुणाऽविरतसम्यग्दृष्टिलक्षणभेदद्विकमिलितं द्वात्रिंशत् । तथाहि-आद्यं व्रतं षड्भङ्गीमध्यात्कश्चिदाद्येन भङ्गेन गृह्णाति, कश्चिद् द्वितीयेनेत्यादिभङ्गाः ६ । एवं मृषावादादिष्वपि प्रत्येकं षट् षड्वाच्याः, मिलिताः ३० । आवश्यके त्वेवम्-कश्चित्पञ्चाणुव्रतानि समुदितान्येव गृह्णाति, तत्र च द्विविधत्रिविधादयः षड्भेदाः । अन्यो व्रतचतुष्टयं गृह्णाति, तत्रापि षट् । यावदन्यस्त्वेकमेवाणुव्रतं गृह्णाति, तत्रापि षट् । एवमावश्यकाभिप्रायेण कृता भङ्गप्ररूपणा। ।।३।।
अथ पञ्चत्रिंशदुत्तरसप्तशत-सङ्ख्यान् श्राद्धभेदान् प्रतिपादयन् प्रज्ञप्त्यभिप्रायेण नवभङ्गीमाह -
तिन्नि तिआ तिन्नि दुया, तिन्निक्किक्का य हुंति जोगेसु। तिदुइक्कं तिदुइक्कं, तिदुइक्कं चेव करणाई ।।४।।
योगेषु करणकारणानुमतिरूपेषु त्रयस्त्रिकाः, त्रयो द्विकाः, त्रय एककाश्च क्रमेण स्थाप्याः, तदधस्ताच्च क्रमेण त्र्यादीनि करणानि मनोवाक्कायलक्षणानि स्थाप्यानि । कोऽर्थः ? कश्चिद्गृही सावद्ययोगं न करोति, न कारयति, नान्यं समनुजानाति, मनसा वाचा कायेन चेत्येको भङ्ग इत्यादिभावः । एवं मूलभङ्गा
नव, उत्तरभङ्गास्त्वेकोनपञ्चाशत् । ३३३।२२२।११ ३२|१|३|२१|३|२|
दृश्यन्ते, मनसस्तु ताः कथम् ? उच्यते, | १३३ ३९९३ | ९ | ९
निर्व्यापारकायवचनो यदा सावद्ययोगमेनं करोमि, इति मनसा चिन्तयति तदा करणम् । यदा तु मनसा चिन्तयति करोत्वेष सावद्यम्, असावपि चेङ्गितज्ञोऽभिप्रायादेव प्रवर्त्तते तदा कारणम् । यदा तु सावा कृत्वा मनसा चिन्तयति सुष्ठु कृतमिदं मया तदा मानस्यनुमतिः ।।४।।
एवं नवभङ्गीं विवृण्वद्भिरस्माभिः प्रसङ्गादेकोनपञ्चाशद्भङ्गी प्रदर्शिता । सम्प्रति प्रकारान्तरेण सूत्रकार एवैनामाह -
मणवयकाइयजोगे, करणे कारावणे अणुमईए ।
इक्कगदुगतिगजोगे, सत्ता सत्तेव इगुवन्ना ।।५।। विभक्तिव्यत्ययात् करणस्य कारणस्यानुमतेश्च मनोवाक्कायैः सह संयोगे सति एककद्विकत्रिकयोगे सप्त सप्तकाः । तथाहि-स्थूलहिंसादिकं न करोति मनसा १ वाचा २ कायेन ३ वा, मनसा वाचा ४, मनसा कायेन ५, वाचा