________________
૧૨૮
सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम् तथा 'दुविहं तिविहाइणट्ठहा' इति द्विविधः कृतकारितरूपः, त्रिविधो मनोवाक्कायभेदेन, यत्र स द्विविधत्रिविध एको भङ्गः, स आदिर्यस्य द्विविधत्रि(द्वि)विधादेर्भङ्गजालस्य तेन द्विविधत्रिविधादिना भङ्गजालेनाष्टविधाः श्रावकाः । यद्वक्ष्यति-'दुविहतिविहेण पढमो, दुविहं दुविहेण बीअओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं ।।२३।। एगविहं दुविहेणं, इक्किक्कविहेण छट्ठओ होइ। उत्तरगुण सत्तमओ, अट्ठमओ अविरओ होइ ।।२४ ।।' अनयोhथयोः सोपयोगित्वादत्रैव व्याख्या-इह व्रतं प्रतिपित्सुः कोऽपि किञ्चित्प्रतिपद्यते श्रावकव्रतप्रतिपत्तेर्बहुभङ्गत्वात् । तत्र द्विविधं कृतकारितभेदं त्रिविधेन 'मनसा, वचसा, कायेन इत्याद्यो भङ्गः । अत्रैवं भावना-स्थूलहिंसादिकं न करोत्यात्मना, न कारयत्यन्येन, मनसा वचसा कायेन च । अस्य चानुमतिरप्रतिषिद्धा 'अपत्यादिपरिग्रहसद्भावात्, तैर्हिसादिकरणे च तस्यानुमतिप्राप्तेः । अन्यथा परिग्रहापरिग्रहयोरविशेषेण प्रव्रजिताप्रव्रजितयोरभेदापत्तेः । यत्पुनः प्रज्ञप्त्यादौ त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः तद्विशेषविषयम् । तथाहि-यः किल प्रविव्रजिषुरेव पुत्रादिसन्ततिपालनाय विलम्बमानः प्रतिमाः प्रतिपद्यते, यो वा विशेष स्वयम्भूरमणगतमत्स्यमांसदन्तिदन्तचित्रकचर्मादिकं स्थूलहिंसादिकं वा क्वचिद वस्थाविशेषे प्रत्याख्याति, स एव त्रिविधं त्रिविधेनेति करोति, इत्यल्पविषयत्वादत्र न विवक्षितम् । द्विविधं द्विविधेनेति द्वितीयः । अत्र चोत्तरपदभङ्गास्त्रयः । तत्र यदा मनसा वाचा न करोति, न कारयति, तदा मनसाऽभिसन्धिरहित एव वाचापि हिंसादिकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिनाऽसज्ञिवत्करोति १ ।। यदा तु मनसा कायेन न करोति, न कारयति, तदा मनसाऽभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेव अनाभोगाद वाचैव हन्मि घातयामि चेति ब्रूते २ ।। यदा तु वाचा कायेन न करोति, न कारयति, तदा मनसैवाऽभिसन्धिमधिकृत्य करोति कारयति च ३ ।। अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्ति । एवं शेषविकल्पा अपि भावनीयाः। तदेवं मूलभङ्गाः षट्, षण्णामपि च मूलभङ्गानामुत्तरभङ्गाः २१ ।। तथा च वक्ष्यति- 'दुविहतिविहाइ छ च्चिय, तेसिं भेया कमेणिमे हुँति । पढमिक्को दुन्नि तिया, दुगेगदोछक्क इगवीसं ।।९।।' 'उत्तरगुण सत्तमओ' इति प्रतिपन्नोत्तरगुणः सप्तमो भेदः । उत्तरगुणाः - त्रीणि गुणव्रतानि चत्वारि च शिक्षाव्रतानि । अविरतसम्यग्दृष्टिरष्टमो भेदः। अथ १. 'मनोवचःकायरूपेण' इत्यपि । २. 'एवं च भावना' इत्यपि । ३. 'रनिपिद्धा' । ४. 'पुत्रकलत्रादि-' इत्यपि ।।