________________
।। अर्हम् ।। सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम्
पणमिअ समत्थपरमत्यवत्थुवित्थारदेसगं वीरं । वुच्छामि सावयाणं, वयभंगयभेअरिसंखं ।।१।। दुविहा अट्ठविहा वा, बत्तीसविहा व सत्तपणतीसा ।
सोलस य सहस्स भवे, अट्ठसयठुत्तरा वइणो ।।२।। व्रतं नियमविशेषः तद्विद्यते येषां ते व्रतिनः । सामान्येन श्रावकाः, न तु देशविरता एव, अविरतसम्यग्दृष्टीनामपि सम्यक्त्वप्रतिपत्तिलक्षणस्य नियमस्य सद्भावात् ।।१।। ।।२।। एतानेव भेदान् प्रत्येकं व्याचिख्यासुराद्यं भेदत्रयमाह -
दुविहा विरयाविरया, दुविहं तिविहाइणट्ठहा हुंति । वयमेगेगं छबिह गुणिअं, दुगमिलिअ बत्तीसं ।।३।। 'विरयाविरया' इति यो व्रतानि नो जानाति १, न चाभ्युपगच्छति, २, न च तत्पालनाय यतते ३ सोऽज्ञाना १ ऽनभ्युपगमा २ ऽयतनाभिः ३ अविरतः। अत्र च त्रिभिः पदैरष्टौ भङ्गाः । तत्राद्येषु सप्तसु नियमादविरतः । यतो व्रतानि घुणाक्षरन्यायेन पालितान्यपि न फलप्रदानि, किन्तु सम्यग्ज्ञानसम्यग्ग्रहणपुरस्सरपालितानि । चरमे तु भङ्गे देशविरतः, स चैकादिव्रतग्राही, यावच्चरमोऽनुमतिमात्रसेवी, शेषं तु पापं सर्वमपि तेन प्रत्याख्यातम् । अनुमतिरपि त्रिधा, प्रतिसेवना १ प्रतिश्रवणा २ संवासानुमति ३ भेदात् । तत्र यः स्वयं परैर्वा कृतं पापं श्लाघते, सावद्यारम्भोपपन्नं वाऽशनाद्युपभुङ्क्ते, तदा तस्य प्रतिसेवानानुमतिः १ । यदा तु पुत्रादिभिः कृतं पापं शृणोति, शृत्वा चानुमन्यते, न च प्रतिषेधयति तदा प्रतिश्रवणानुमतिः २ । यदा तु सावद्यारम्भप्रवृत्तेषु पुत्रादिषु केवलं ममत्वमात्रयुक्तः स्यात्, नान्यत् किञ्चित्प्रतिशृणोति श्लाघते वा तदा संवासानुमतिः ३ । तत्र यः संवासानुमतिमात्रमेव सेवते, स चरमो देशविरतः । यस्तु संवासानुमतेरपि विरतः स यतिरित्युच्यते । इति विरताविरतभेदाद् द्विविधाः । १. क्वचित् 'परिमाणं' इत्यपि । २. 'अट्ठसयाळुत्तरा' इत्यपि । ३. 'फलवन्ति' ‘फलन्ति' इत्यपि ।।