SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना अस्य प्रस्तुतप्रकरणस्यास्या अवचूर्याश्च प्रणेतारः कदा कतमं महिमण्डलं मण्डयामासुः इत्येतद्विषयस्य निर्णयस्तु कर्त्तुं न पार्यते, प्रकरणेऽस्मिन् स्वकीयाभिधेयस्य कुत्राप्यनभिधानात् । परं नार्वाचीनं विक्रमार्कीयपञ्चदशशताब्द्यां लिखितपुस्तकोपलम्भात् । प्रकरणेऽस्मिन् प्रकरणकारैः सम्यक्त्वमूलद्वादशव्रतानां श्रावकव्रतानां षड्भङ्ग्यादिभेदेन भङ्गाः स्फुटतया प्रदर्शिताः सन्ति । " अस्य संशोधनसमये सप्त पुस्तकानि समुपलब्धानि तेषु केषुचित् पुस्तकेष्ववचूर्याः पाठो न्यूनाधिको दृश्यते, परमस्माभिस्तु बहुपुस्तकसङ्गतपाठ एवादृतः । एतत्पुस्तकसप्तकाधारेण संशोधितेऽप्यत्र निबन्धे यत्र क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं सदयहृदयैरिति प्रार्थयते प्रकल्पिताञ्जलिः प्रवर्त्तकपादपाथोजपरागः चतुरविजयो मुनिः ।
SR No.023405
Book TitlePadarth Prakash Part 17
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy