Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 154
________________ सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम् १६,८०८ सङ्ख्यान् श्रावकभेदानभिधित्सुः पञ्चाणुव्रतदेवकुलिकाप्रतिपादनाय पूर्वमेकादिसंयोगपरिमाणप्रदर्शनपरान् गुणकारकराशीनाह - पंचण्हमणुवयाणं, इक्कगदुगतिगचउक्कपणगेहिं । पंचगदसदसपणइक्कगो अ, संजोग नायव्वा ।। २५ ।। ।।२५।। पञ्चमदेवकुलिकाया गुण्यराशीनाह छ च्चेव य छत्तीसा, सोलदुगं चेव छनवदुगइक्कं । छगसत्तसत्तसत्त य, पंचन्ह वयाण गुणनपयं ।। २६ ।। पञ्चानामपि व्रतानामेतद्गुणनस्य ताडनस्य पदं स्थानम् ।।२६।। पञ्चमदेवकुलिकाया एवागतराशीनाह - वयइक्कगसंजोगाण हुंति पंचण्ह तीसई भंगा । दुगसंजोगाण दसह तिन्नि सट्टा सया हुंति ।। २७ ।। तिगसंजोगदसण्हं, भंगसया इक्कवीसई सट्ठा । चउसंजोगप्पणगे, चउसट्ठिसयाणि असियाणि ।। २८ ।। ૧૩૫ सत्तत्तरीसयाइं, छसत्तराई तु पंचगे हुंति उत्तरगुणअविरयमेलिआण जाणाहि सव्वग्गं ।।२९।। इयमत्र भावना - कश्चित्पञ्चाणुव्रतानि प्रतिपद्यते । तदा किल पञ्च एककसंयोगा एकैकस्मिंश्चैकैकसंयोगे द्विविधत्रिविधादयः षट् षड्भङ्गाः स्युः, ततः षट् पञ्चभिर्गुण्यन्ते जाताः ३० । एतावन्तः पञ्चानां व्रतानामेककसंयोगे भङ्गाः । तथा एकैकस्मिन् द्विकसंयोगे ३६ भङ्गाः । तथाहि - आद्यव्रतसम्बन्धी आद्यो भङ्गकोऽवस्थितो मृषावादसत्कान् षड्भङ्गकान् लभते । एवमाद्यव्रतसम्बन्धी द्वितीयोऽपि यावत् षष्ठोऽपि भङ्गकोऽवस्थित एव मृषावादसत्कान् षड्भङ्गान् प्रत्येकं लभते । ततश्च षट् षड्भिर्गुणिताः ३६ । दश चात्र द्विकसंयोगाः, अतः षट्त्रिंशद् दशभिर्गुण्यन्ते जातानि ३६० । एतावन्तः पञ्चानां व्रतानां द्विकसंयोगे भङ्गाः । एवं त्रिकसंयोगादिष्वपि भङ्गसङ्ख्याभावना कार्या । १२९६ ५ ६४८० पञ्चमदेवकुलिकास्थापना ६ ५ ३० ३६ १० ३६० २१६ १० २१६० ७७७६ १ ७७७६

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242