SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम् ૧૩૧ भङ्ग्या) च निष्पद्यन्ते । सर्वास्वपि देवकुलिकासु प्रत्येकं त्रयस्त्रयो राशयः स्युः । तद्यथा-आदौ गुण्यराशिर्मध्ये गुणकारकराशिरन्ते चागतराशिः ।।९।। तत्र पूर्वमेतासामेव देवकुलिकानां षड्भङ्ग्यादिक्रमेण विवक्षितव्रतभङ्गकसर्वसङ्ख्यारूपानेवंकारकराशीनाह - एगवए छ अंगा, निद्दिट्ठा सावयाण जे सुत्ते ।। ति च्चिअ पयवुड्ढीए, सत्तगुणा छज्जुआ कमसो ||१०।। इगवीसं खलु भंगा, निद्दिट्ठा सावयाण जे सुत्ते । ति च्चिअ बावीसगुणा, इगवीसं पक्खिवेयव्वा ||११|| एगवए नव भंगा, निद्दिट्ठा सावयाण जे सुत्ते । ति च्चिअ दसगुण काउं, नव पक्खेवंमि कायव्वा ।।१२।। इगुवन्नं खलु भंगा, निद्दिट्ठा सावयाण जे सुत्ते । ति च्चिअ पंचासगुणा, इगुवन्नं पक्खिवेयव्वा ||१३|| सूत्रे आवश्यकनियुक्त्यादौ पदवृद्ध्या मृषावादाद्येकैकव्रतवृद्ध्या एकव्रतभङ्गकराशेरवधौ व्यवस्थापितत्वात् विविक्षितव्रतेभ्य एकेन हीना वारा इत्यर्थः । सप्तगुणाः षड्युताश्च क्रमेण सर्वभङ्गकसङ्ख्याराशिं जनयन्ति इति शेषः । तथाहि-एकव्रते ६ भङ्गाः, ते च सप्तभिर्गुणिता जाताः ४२ । तत्र षट् क्षिप्यन्ते जाताः ४८ । एषा सप्तभिर्गुण्यते षट् च क्षिप्यन्ते जातानि ३४२ । एवं सप्तगुणनषट्प्रक्षेपक्रमेण तावद्यावदेकादश्यां वेलायामागतम्-१३८४१२८७२००। एते षडष्टचत्वारिंशदादयो द्वादशापि राशय उपर्यधोभागेन व्यवस्थाप्यमाना अर्धदेवकुलिकाकारां भूमिमास्तृणन्तीति खण्डदेवकुलिकेत्युच्यते । (तदेवमुक्ता षड्भङ्गीप्रतिबद्धा खण्डदेवकुलिका ।) एकविंशतिभङ्ग्यादिखण्डदेवकुलिका अप्येवमेव भावनीयाः । नवरं एकादशवेलायां द्वादशव्रतभङ्गकसर्वसङ्ख्यायामागतं क्रमेण१२८५५००२६३१०४९२१५। (एवं नवभङ्ग्यामेकादशवेलायां सर्वसङ्ख्यायामागतम्) ९९९९९९९९९९९९ । (एवमेकोनपञ्चाशद्भङ्ग्यां सर्वव्रतसर्वसङ्ख्यायामागतम्) २४४१४०६२४९९९९९९९९९९९९ । सप्तचत्वारिंशच्छतभङ्गपक्षेऽप्येवम् । नवरं तत्र १४७ अवधौ व्यवस्थाप्यन्ते (वारं वारमष्टचत्वारिंशच्छतेन गुण्यते, १४७ मध्ये प्रक्षिप्यन्ते) यावदेकादश्यां वेलायामागतम्-११०४४३६०७७१९६११५३३३५६९५७६९५ ।।१०।।।।११।।।।१२।।।।१३।।
SR No.023405
Book TitlePadarth Prakash Part 17
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy