________________
૧૩૨
सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम् 'उक्ताः पञ्चापि खण्डदेवकुलिकाः । साम्प्रतं सम्पूर्णदेवकुलिकानामवसरः । तत्र च प्रतिव्रतमेकैकदेवकुलिकासद्भावेन षड्भङ्ग्यादिषु प्रत्येकं द्वादश द्वादश देवकुलिकाः प्रादुर्भवन्ति । तासु च सर्वास्वप्युच्यमानासु महान् विस्तरः स्यादित्यतो दिग्मात्रप्रदर्शनाय षड्भङ्ग्यामेव द्वादशी देवकुलिकामभिधित्सुरेककद्विकादिसंयोगसूचकगुणकारकराशिसमानयनोपायमाह - एगाई एगुत्तर, पत्तेअ पयंमि उवरि पक्खेवो । इक्किक्कहाणि अवसाणसंखया हुंति संजोगा ।।१४।।
एकादय एकोत्तरया वृद्ध्या उपर्युपरि क्रमेण स्थाप्यन्ते ।
ततः प्रत्येकमेकैकस्मिन् पदे उवरि' इति प्रक्षेप्याड्कोपरिस्थिते अधस्तनाङ्कस्य प्रक्षेपः कार्यः । अधस्तनाङ्कस्तु तथैव ध्रियते एकैकस्योपरितनाङ्कस्य हानिवर्जनं यथा स्यात् क्षेपे क्षेपे तथा कार्यम् । 'अवसाणसंखया' इति अवसानक्रमेण सर्वाङ्कप्रक्षेपपरिसमाप्तिरूपे येऽङ्काः क्रमशस्तत्सङ्ख्याः संयोगाः । स्थापना यथा ।
एककस्त्वन्त्यत्वान्न कुत्रापि क्षिप्यते इति द्वादशस्य क्षेपस्यासम्भवः । तदेवमेकैकसंयोगाः १२, द्विकसंयोगाः ६६, त्रिकसंयोगाः २२०, चतुष्कसंयोगाः ४९५ इत्यादि ।।१४।।
अथेहैव प्रकारान्तरमाह - उभयमुहं रासिदुगं, हिछिल्लाणंतरेण भय पढमं । लद्धहरासिविभत्ते, तस्सुवरि गुणित्तु संजोगा ।।१५।।
यद्यपि द्वादशी देवकुलिका वक्तुमुपक्रान्ता तथापि १२३४५] लाघवार्थं पञ्चाणव्रतान्येवाश्रित्य भावना ज्ञेया । एवं ५ | ४ | ३ | २ [१] स्थापितयो राश्योरेककसंयोगाः पञ्च । नात्र करणगाथाया व्यापारः । द्विकसंयोगास्तु १. 'तदेवमुक्ताः', तथा 'इत्थमुक्ताः' इत्यपि ।।