________________
सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम्
૧૩૩ दश । कथम् ? अधस्तनैककानन्तरद्विकेनोपरितनचतुष्कस्य प्रथममाद्यं पञ्चकलक्षणमकं भजेल्लब्धौ सार्की द्वौ, ताभ्यामुपरितनचतुष्कं गुणयेल्लब्धा दश द्विकसंयोगाः । ते च द्विकानन्तरत्रिकेण भजेल्लब्धा सत्रिभागास्त्रयः, तैश्चोपरितनत्रिकं गुणयेज्जाता दश त्रिकसंयोगाः । तांश्च त्रिकानन्तरचतुष्केण भजेत् लब्धौ सार्दो द्वौ, ताभ्यामुपरितनद्विकं गुणयेज्जाताः पञ्च चतुष्कसंयोगाः । तांश्च चतुष्कानन्तरपञ्चकेन भजेत् लब्ध एकः, तेन उपरितनमेकं गुणयेद् एकेन | १ | ५ |१०|१०| ५] गुणितं तदेव स्याद इत्येक एव पञ्चकसंयोगः ।।१५।।। ५ | ४ | ३ | २ | १ |
प्रकारान्तरेणाह - अहवा पयाणि ठविउं, अक्खे चित्तूण चारणं कुज्जा । इक्कगदुगाइजोगा, भंगाणं संख कायव्वा ।।१६।।
पदानि विवक्षितव्रतलक्षणानि स्थापयित्वा अक्षान् गृहीत्वा क्रमेण चारणं कुर्यात्, तत एकद्विकादिसंयोगविषये भङ्गाः समुत्पद्यन्ते, तेषां सङ्ख्या कर्त्तव्या । तत्र पञ्चानां पदानामेककसंयोगे एकैकचारणया पञ्च भङ्गाः, द्विकसंयोगे दश । ते चैवम्-१-२॥ १-३। १-४ । १-५ । एकेन चारणया चत्वारः । द्वितीयतृतीय २-३ । २-४ | २-५ चारणया त्रयः | ३-४ | ३-५ । चारणया द्वौ। ४-५ | चारणया त्वेकः एवं १० । त्रिकसंयोगेऽपि दश । एवम्-१-२-३। १-२-४। १-२-५ । १-३-४ । १-३-५ । १-४-५ । एकेन चारणया षट् । २-३-४ । २-३-५ । २-४५। ३-४-५ । इत्यादि यावत् पञ्चकसंयोगे चारणाया असम्भवादेक एव भङ्गः ।।१६।।
अथ साक्षादेव द्वादश्या देवकुलिकायाः क्रमेण गुणकारकराशीनाह - बारस छावट्ठी विअ, वीसहिया दो य पंच नव चउरो । दो नव सत्तय चउ दुन्नि, नवय दो नवय सत्तेव ।।१७।। पण नव चउरो वीसा य, दुन्नि छावठि बारसिक्को य । सावयभंगाणमिमे, सव्वाणवि हुंति गुणकारा ||१८।।
विंशत्यधिके द्वे शते 'पंच नव चउरो' इति गणितव्यवस्थावशाद् उत्क्रमेण स्थाप्यन्ते ततः स्युः ४९५ । एवमग्रेऽपि । सर्वेषामपि श्रावकभङ्गानां षट् पट्त्रिंशदादिरूपाणां गुण्यराशीनां यथाक्रमं गुणकाराः स्युः । सर्वग्रहणेनैकविंशतिभङ्ग्यादिप्वपि एते एव गुणकारा ज्ञेयाः ।।१७।।।।१८।।