SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३४ सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम् इदानीं द्वादशकुलिकायाः क्रमेण गुण्यराशी नाह छच्चेव य छत्तीसा, सोलदुगं चेव छनवदुगइक्कं । छस्सत्तसत्तसत्त य, छप्पन्न छसट्ठि चउछट्ठे ।।१९।। छत्तीसा नवनउई, सत्तावीसा य सोल छन्नउई । सत्त य सोलस भंगा, अट्ठमठाणे विआणाहि ।।२०।। छाणउई छावत्तरि, सत्तदुसुन्निक्क हुंति नवमंमि । छावत्तरि इगसट्ठी, छायाला सुन्न छ च्चेव ||२१|| छप्पन्नसुन्नसत्त य, नवसत्तावीस तह य छत्तीसा । छत्तीसा तेवीसा, अडहत्तरि छहत्तरिगवीसा ||२२|| - एतेषां च राशीनामानयनोपायो यथा - आद्याः षट् षड्भिर्गुण्यन्ते जाताः षट्त्रिंशत्, सापि षड्भिर्गुण्यते जाताः २१६ । तेऽपि षड्भिर्गुण्यन्ते जाताः १,२९६ । एवं वारं वारं तावत् षड्भिर्गुणनं विधेयं यावद् द्वादशापि गुण्यराशयः सम्पूर्णा जायन्ते । (एवं नवभङ्ग्यां नवभिर्नवभिर्गुणनं कार्यम् । यथोत्तरमेकविंशतिभङ्ग्यामेकविंशत्या, एकोनपञ्चाशद्भङ्ग्यामेकोनपञ्चाशता इत्यादि स्वयं ज्ञेयम् ।) एते एव षट् षट्त्रिंशदादयो द्वादश गुण्यराशयः क्रमशो द्वादशषट्षष्टिप्रभृतिभिर्द्वादशभिर्गुणकारकराशिभिर्गुणिता आगता राशयः स्युः ७२ । २,३७६ । इत्यादिरूपाः, परं विस्तरभयान्नोक्ताः सूत्रकृता । उक्ता द्वादशी देवकुलिका । एतदनुसारेण प्राक्तन्योऽप्येकादश स्वयमूह्याः । एवमेकविंशत्यादिभङ्गपक्षेऽपि प्रत्येकं १२ देवकुलिका ज्ञेयाः । सर्वसङ्ख्यया षष्टिदेवकुलिकाः स्युः । । १९ । । । ।२० ।। । ।२१ ।। । ।२२ । अथ 'दुविहं तिविहाइणट्ठहा हुंति' इति पूर्वोक्तं विवृण्वन्नाहदुविहतिविहेण पढमो, दुविहं दुविहेण बीअओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं ।। २३ ।। एगविहं दुविहेण, इक्किक्कविहेण छट्ठओ होइ । उत्तरगुणसत्तमओ, अट्ठमओ अविरओ होइ ।।२४।। एतद्गाथाद्वयं पूर्वमष्टविधाधिकारे व्याख्यातम् ।। २३ ।।।। २४ ।।
SR No.023405
Book TitlePadarth Prakash Part 17
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy