Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 551
________________ १२६ न्यायमअर्याम् चनं कृतकत्वादित्येवमादि प्रयोक्तव्यमपि तु हेतुविभक्त्यन्तं कृतकवादित्येवमा दि प्रयोक्तव्यमिति कृतकत्वेनेति कृतकोऽयमस्मादिति वाऽभिघातव्यमेवं हि तत्साध्यसाधनं भवतीति ॥ तथा वैधात् ॥ (१।१।३५) उदाहरणग्रहणमनुवर्तते साध्यसाधनमिति च , एतच्च तथाशब्दोपादानसा. मागम्यते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः , अत्राप्यर्थात्मकहेतुपूर्वक त्वाद्वचनस्यार्थात्मक एव हेतुः प्रथमं लक्ष्यते इति तल्लक्षणाय पूर्ववत्पञ्चमीपा. ठशून्यमेव सूत्रं वर्णयन्ति , वैधर्म्य हेतुरित्युच्यमाने पक्षवेधर्म्यस्यापि विपक्षवृत्तेरशेषाश्वव्यक्तिपक्षीकरणे तुरगा इमे विषाणादित्येवमादेहेतुत्वं स्यादित्युः दाहरणग्रहणम् , तथाऽप्यसाधारणादेरुदाहरणवैधय॑स्य हेतुता प्रसज्यते इति पूर्ववत्साध्यसाधनग्रहणं प्रतिबन्धसूचके सकलहेत्वाभासव्यवच्छेदके योजनीय. म , तस्मादेव सकलहेत्वाभासव्यवच्छेदसिद्धेरुदाहरणवैधर्म्यग्रहणं समानजाती. यान्वयव्यतिरेकिहेतुव्यवच्छेदसिद्धये व्याख्येयम् । ___ "ननु च वैधय॑शब्दः केवलान्वयिनमेव हेतमव्यतिरेकं व्यवच्छेत्तमलं, तस्य वैधर्म्यशून्यत्वादन्वयव्यतिरेकिणोस्तु हेत्वोरुदाहरणसाधर्म्यस्यापि भावास्कथमनेन व्यावर्तनम् ?" उच्यते वैधर्म्यशब्दोपाद्रानात्केवलान्वयिनो यथा । निवृत्तिर्गम्यते तद्वदन्वयव्यतिरेकिणः ।। साध्यसाधनशब्दो हि प्रतिबन्धोपलक्षणः । व्याख्यातः प्रतिबन्धश्च ध्यतिरेकान्वयात्मकः॥ वैधर्म्यसाधनेऽप्यस्मिन् स एव यदि वर्ण्यते । पूर्वत्र कथनाद्वयर्थ वैधर्म्यग्रहणं भवेत् ॥ केवलव्यतिरेकाख्यप्रतिबन्धाभिधित्सया। वैधर्म्यवचनं तत्स्मात्सफलं व्यवतिष्ठते ॥ अध्याहृतैवकारं वा तद्वयुदासाय पठ्यताम् । विशेषविधिरूपेण व्याख्यानं वा विधीयतम् ।। केवलान्वयिहेतुश्च न कश्चिदुपलभ्यते । तेन पूर्वोक्त एवास्य व्यवच्छेद्यो भविष्यति ॥ - "नन्वेवं तयनेनैव न्यायेन पूर्वसूत्रं केवलान्वयिलक्षणार्थ स्यात् , यथेह वैधर्म्यग्रहणं साधर्म्यव्यवच्छेदकमेवं तत्र साधर्म्यग्रहणं वैधर्म्यव्यवच्छेदाय स्यादिति” । उक्तमत्र न केवलान्वयी नाम हेतुः संभवतीत्यलक्षणीय एवासौ , तदेवमन्वयव्यतिरेकवतो हेतोर्लक्षणाय पूर्वसूत्रमिदं तु केवलव्यतिरेकिलक्षणाये

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656