Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
न्यायसूत्रोद्धारे
चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ ११ ॥ घ्राणरसनचक्षुस्त्वकश्रोत्राणीन्द्रियाणि भूतेभ्यः ॥ १२ ॥ पृथिव्यापस्तेजोवायुराकाशमिति भूतानि ॥ १३॥ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥ १४ ॥ बुद्धिरुपलब्धिनिमित्यनान्तरम् ॥ १५ ॥ युगपजशानानुत्पत्तिमनसो लिङ्गम् ॥ १६ ॥ प्रवृत्तिर्वागबुद्धिशरीरारम्भः ॥ १७ ॥ प्रवर्तनालक्षणः दोषाः ॥ १८ ॥ पुनरुत्पत्तिःप्रेत्यभावः ॥ १६॥ प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ २० ॥ बाधनालक्षणं दुःखम् ॥ २१ ॥ तदत्यन्तविमोक्षाऽपवर्गः॥ २२ ॥
समानानेकधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च वि. शेषापेक्षा विमर्शः संशयः ॥ २३ ॥
यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥ २४ ॥ लोकिकपरीक्षकाणां यस्मिन्नर्थ बुद्धिसाम्यं स दृष्टान्तः ॥ २५ ॥
इदं सूत्रमिति वातिकम् । ११ शरीरं लक्षयितुं सूत्रं चेष्टेत्यादीति ता० टी० । १२ लक्षणसूत्राणि समानासमानजातीयविशेषणार्थानि सर्वाणीति सूत्रार्थो द्रष्टव्य इति वार्तिकम् । १३ कानि पुनरिन्द्रिय कारणानि इति प्रश्नस्योत्तररूपं पृथिव्यापस्तेजो वा. युराकाशमिति भूतानीति भाष्यं न सूत्रं वाति के तात्पर्यटीकायां च सूत्रत्वानुक्तेः गन्धः रसेत्यादेरेव वार्तिके सूत्रत्वोक्त विश्वनाथवृत्यनुसारेण च सूत्रत्वेन मुद्रितमिति के. चित् । न्यायसूचीनिबन्धदर्शनात सूत्रमेवेदमित्यन्ये । १४ एतत्सूत्रमिति वार्तिकम् ॥ १५ बुद्धवसरप्राप्ताया लक्षणापदेशद्वारेण सूत्रमिति वातिकम् । १६ यस्मादि. न्द्रियार्थसन्निकणे सत्यपि युगपज्ज्ञानानि न भवन्ति अतो गम्यते अस्ति तदि. न्द्रियसंयोगि सहकारि निमित्तान्तरमव्यापि यस्य सन्निधानासन्निधानानुविधानाज्ज्ञान. स्थोत्पत्त्यनुत्पत्ती भवत इति कुतः कारणवैकल्ये कार्यप्रतिवन्धादिति सूत्रार्थ इति वार्तिकम् । १७ तात्पर्यटीकापुस्तकेषु यत्र २ सूत्रं लिखितं तत्रैवाघन्ताक्षराणि दृशयन्ते । अत्र प्रवृ-मः इति लेखदर्शनादितिशब्दः सूत्रानन्तर्गत एव भाष्यपुस्तकेषु तथा दर्शनान्निवेशितः । १८ दोषलक्षणं प्रव-षा इति तात्पर्यटीका । १९ प्रेत्यभावं लक्षयति पुन-व इति तात्पर्यटीका । २० प्रवृ-लम् इति० ता०टी० २१ दुःख लक्षणं वाध-खम् इति ता० टी० । अन्न इति शब्दः सूत्रानन्तर्गतः । २२ तद-र्ग इति ता० टी०। २३ समानानेकधर्मोपपत्तरिति सूत्रमिति वार्तिकम् । २४ प्रयोजनलक्षणं यम-न.
Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656