Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
. श्रीगणेशायनमः । श्रीवाचस्पतिमिश्रप्रणीतो न्यायसूत्रोद्धारः । श्रीवाचस्पतिमिश्रेण मिथिलेश्वरसूरिणा ।
लिख्यते मुनिमूर्धन्यश्रीगोतममतं महत ॥१॥ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्ताषयवतर्कनिर्णयवादजल्प वितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निाश्रेयसाधि गमः ॥१॥
दुःखजन्मप्रवृत्तिदोषमिथ्याशानानामुत्तरोत्तरापाये तदनन्तराभावा. दपवर्गः ॥२॥
प्रत्यक्षानुमानापमानशब्दाः प्रमाणानि ॥३॥
इन्द्रियार्थसनिक!त्पन्नं शानमव्यपदेश्यमव्यभिचारि व्यवसाया. त्मकं प्रत्यक्षम् ॥ ४॥
अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो! दृष्टं च ॥५॥ प्रसिद्धसाधासाध्यसाधनमुपमानम् ॥ ६॥ आप्तोपदेशः शब्दः ॥ ७॥ स द्विविधो दृष्टादृष्टार्थत्वात् ॥ ८॥
आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ॥
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥१०॥
___ अत्र टिप्पण्यां येषां सूत्रत्वे प्रमाणमुपलब्धं तदभावे वा तयोरदर्शनं वा सदुपन्य. स्यते
१ तासां खल्वासां सद्विधानामिति भाष्येण सूत्रमवतार्य पठितमिति तात्पर्यटी. का । २ तदनन्तरापायादिति विश्वनाथसंमतः पाठः । क्रमप्रतिपादनार्थ चेदं सूत्रमिति वार्तिकम् । ३ यथोदिष्टविभागद्वारेण सूत्रमिति वार्तिकम् । ४ इन्द्रियार्थसनिकों. स्पत्रमित्यादि सूत्रमिति वार्तिकम् । इतः परं 'संस्कारोद्भवा प्रत्यभिज्ञा' इति सूत्रमिति राधामोहनः । ५ अनुमामविशेषणार्थ सूत्रमिति वार्तिकम् । ६ सूत्रार्थः पूर्ववदिति वार्तिकम् । ७ न शब्दमात्रमिति सूत्रार्थ इति वार्तिकम् । ८ इदं सूत्रं वङ्गाक्षरलिखितपुस्तके श्रुटितम् । स द्विविधो दृष्टादृष्टार्थत्वादिति सूत्रस्य तात्पर्यमाहेति तात्पर्यटोकायां दर्शनात्सूत्रमेवेदम् । ९ एतदर्यप्रकाश नायास्मादि सूत्रमिति वार्तिकम् । १० लिङ्गमितीति पाठो न समीचीन:
Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656