Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 643
________________ न्यायसूत्रोद्धारे न दोषलक्षणावरोधान्मोहस्य ॥ ८ ॥ नित्यनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥ ६ ॥ आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥ १० ॥ व्यक्ताव्यक्तानां प्रत्यक्ष प्रामाण्यात् ॥ ११ ॥ न घटादु घटानिष्पत्तेः ॥ १२ ॥ व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः ॥ १३ ॥ भावाद्भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् ॥ १४ ॥ व्याघातादप्रयोगः ॥ १५ ॥ नातीतानागतयेाः कारकशब्दप्रयोगात् ॥ १६ ॥ नविनष्टेभ्योऽनिष्पत्तेः ॥ १७ ॥ क्रमनिर्देशादप्रतिषेधः ॥ १८ ॥ ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ॥ १६ ॥ म पुरुषकर्माभावे फलानिष्पत्तेः ॥ २० ॥ तत्कारितत्वादहेतुः ॥ २१ ॥ अनिमित्ततो भावात्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ॥ २२ ॥ अनिमित्तनिमित्तत्वान्नानिमित्ततः ॥ २३ ॥ निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः ॥ २४ ॥ सर्वमनित्यमुत्पतिविनाशधर्मकत्वात् ॥ २५ ॥ नानित्यतानित्यत्वात् ॥ २६ ॥ तदनित्यत्वमग्नेर्दा ह्यविनाश्यानुविनाशवत् ॥ २७ ॥ नित्यस्याप्रत्याख्यानं यथोपलब्धिव्यवस्थानात् ॥ २८ ॥ सर्वं नित्यं पञ्चभूत नित्यत्वात् ॥ २६ ॥ पूरणमिति बहवः । ८- ९-१० इमानि सूत्राणि न्यायसूचीनिबन्धे । ११ इदं सूत्रमिति वार्तिकम् । १२-१३-१४-१५-१६ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । १७ अत्रैवार्थे सूत्रं योजयतीति ता०टी० । १८ पूर्वं वीजविनाशः पश्चादङ्करोत्पत्तिरिति सूत्रार्थ इति वार्तिकम् । १९ सूत्रयति ईश्वर इतीति परिशुद्धिः । २० सिद्धान्तसूत्रमिति परिशुद्धिः २१ तत्र सूत्रं योजयति तत्कारित्वादितिः परिशुद्धिः | २२ दृष्टान्तसूत्रमिति वार्तिकम् । २३-२४ नव्यास्तु सूत्रीद्वयमेवं व्याचक्षते इति वृत्तिः । २५ पूर्वपक्षसूत्रमिति वृत्तिः । सूत्रस्य दृष्टान्तार्थत्वादिति वार्तिकम् । २६ अस्य सूत्रत्वे प्रमाणं म्याथसूचीनिबन्धः । २७ तदनित्यत्वमित्यादि सूत्रमिति परिशुद्धिः । २८-२९ अस्व

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656