Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 594
________________ जातिप्रकरणम् । तत्कारणान्वेषणातिप्रसङ्गात्प्रसङ्गसमो ऽयं प्रतिषेधः, प्रतिदृष्टान्वेन प्रत्यवस्थानं प्रविष्टान्तसमः । यया घटः प्रयत्नानन्तरीयकः सन्ननित्यो दृष्ट एवमाकाशं प्रयत्नानन्तरीयक नित्यं दृश्यते तद्वच्छब्दो ऽपि नित्यः स्यादिति, कः पुनराकाशस्य प्रयत्नानन्तरी. यकत्वं वदेत् कूपखननादिना ऽऽकाशकरणं मन्वान एवं ब्रूयादपि कश्चित् ।। "नन्वेवमपि व्यभिचारोद्भावनमेतत्सम्यगुत्तरं नासदुत्तरप्रकारो जातिप्रयोगः" नैतदेवम् , न हि हेतोरनैकान्तिकत्वमुद्भावयन्नसौ साधुरिव जातिवादी प्रत्यवतिष्ठते ऽपि तु दृष्टान्तबलेन नित्यत्वमेव साधयन्नुत्थित इति जातिप्रयोग एवा. यम् , हेत्वाभासा अपि स्वरूपनिग्रहपुरःसरमपरहेतुप्रतिबिम्बवर्त्मना प्रदर्श्यमाना जातितां प्रतिपद्यन्त एव । अत्र प्रसङ्गसमस्य तावदुत्तरमाहप्रदीपोपादानप्रसङ्गविनिवृत्तिव तद्विानिवृत्तिः॥ गौ.सू.५आ.१सू.१०। असिद्धं हि नाम साध्यते न सिद्धं प्रयत्नवैफल्यात् , सान्धकारे सद्मनिपिठरादिपदार्थदर्शनाय प्रदीपमुपाददते लौकिका न दीपदर्शनार्थ दीपान्तरपरम्परामाहरन्तीति, अन्तरेणापि हि दीपान्तराणि दृश्यत एव प्रदीपः, एवं लोकिकपरीक्षकाणां घटादौ प्रयत्नानन्तरीयकत्वस्य सिद्धत्वात्तत्र कारणापदेशो निष्प्रयोजन इति तस्मान्नायमतिप्रसङ्गापादनस्य विषयः । अथ प्रतिदृष्टान्तसमस्योत्तरम् प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥ गौ. अ. ५ आ. १ सू. १२ । प्रतिदृष्टान्त एव साधकबुद्धया यदि त्वयोपन्यस्तस्तहि विशेषहेतुर्वक्तव्यो ऽनेन हेतुना प्रतिदृष्टान्त एव साधको न दृष्टान्त इति न चासो विशेषे हेतुरुच्यते तस्मान प्रतिदृष्टान्तः सिद्धिहेतुरिति दृशान्त एव साधको भवति, प्रतिदृष्टान्त. हेतुत्वेऽपि स्थिते सत्यहेतुदृष्टान्तोन हि साधकः स्यात् , न च तदस्तीत्युक्तमतो न हेतुईष्टान्तः, अथ यथा प्रतिदृष्टान्तो न साधक एवं दृष्टान्तोऽपि मा भूदित्यनया नीत्या प्रत्यवतिष्ठसे हन्त तर्हि प्रतिदृष्टान्तस्य तावदहेतुत्वं स्वकण्ठेन कथित. मिति तस्मिन्नसाधके दृष्टान्त एव साधक इति । अनुत्पत्तिसमस्य लक्षणम् - प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ।। गौ. अ. ५ आ. १ सू.१२। अनुपस्या प्रत्यवस्थानमनुत्पत्तिसमः प्रतिषेधः, प्राक्तन एब प्रयोगे जाति

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656