Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
१९९
निग्रहस्थानप्रकरणम् । मात्मीयं संवरीतुमना एवमभिधत्तं न हि समर्थों विद्वान्विस्पष्टं न वक्तीति, त्रि. त्वनियमो ऽपि न वेदवचननरपतिशासननिबन्धनः किं तु वस्तुस्थित्युपनत एव, यतः सकृद् द्विरप्यभिहितमप्यनवधानादिना न गृहीतमिति संभाव्यते त्रिस्तु यदुक्तं न ज्ञायते तत्र वक्तुरेव जाड्यम् अनेकप्राश्निकादिसमाजे कथितमवश्यं केनाप्यवगम्यते सर्वैरनवगमात्तु वक्तैव निगृह्यते, चतुर्धा पञ्चकृत्वो वा ऽभिधान ने त्विष्यमाणे निरवधिताऽभिधानस्य प्रसज्यत इति युक्तस्त्रिवचननियम इति ।
अपार्थकस्य लक्षणम्पौर्वापर्यादियोगादप्रतिसंबद्धार्थमपार्थकम् ॥ अ. ५ आ २ सू. १०
पूर्वापरासंगतपदकदम्बकोच्चारणादप्रतिष्ठितवाक्यार्थमपार्थक नाम निग्रह स्थानं भवति, तद्यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललखण्डः श्रोहकमेतत्कुमार्याः स्फैय्यकृतस्य पिता प्रतिशीन इति।
"अत्राह असंबद्धवाक्यमसंबद्धं प्रकरणं च निग्रहस्थानान्तरं कस्मान्नोक्तम् , • एतेनैव गतार्थत्वादिति चेद्, यद्येवमनर्थकेनैव गतार्थत्वादपार्थकमपि पृथक न
बक्तव्यम्" ___"अत्रोच्यते निरर्थकेन पदार्थेन वाक्यार्थः केवलं वर्णा एव शुष्का उच्चार्यन्ते अर्थान्तरे ऽपि समन्वितपदार्थे व्यवस्थापितवाक्यार्थमप्रकृतं तूच्यते, इह तु पदार्थसंप्रत्ययेऽपि तदन्वयासंभवेन वाक्यार्थानवसाय इति स्पष्टो भेदः, प्रकृ. तविवादास्पदीभूते वस्तुनि को वा विशेष इति चेत् , उक्तमत्र संक्षेपविवक्षायां द्वे एव निग्रहस्थाने असंकीर्णोदाहरणविवक्षया तु द्वाविंशतिभेदत्वं प्रकृतवस्तुसि. द्विस्तु द्वाविंशतावपि तुल्यैव । ___ यत्तु असंबद्धं वाक्यमसंबद्धं प्रकरणं च पृथगुपसंख्येयमिति तन्न, असंबद्ध. पदार्थेनैव तत्संग्रहात् , यदि वसंबद्धवाक्यमसंबद्धप्रकरणं चावश्यं वक्तव्यं तदुक्तमेव भवदीयं शास्त्रम् , तथा हि वैभाषिकाणामस्ति बाह्यार्थः स च प्रत्यक्षः, सौत्रान्तिकानां च सन्नप्यनुमेयः, योगाचाराणां साकारं ज्ञानमेव न बाह्यार्थः स च प्रत्यक्षः, माध्यमिकानामाकारशून्यं स्वच्छं ज्ञानम्, एवमितरे. तरानन्वितवाक्यप्रकरणमिदमशेषमेव शाक्यशास्त्रम् आह च, दशदाडिमवाक्य. स्य बौद्धशास्त्रस्य चाप्यबद्धस्य प्रतिष्ठा केन लभ्यते ।
__ अप्राप्तकालस्य लक्षणम्अवयवविपर्यासवचनमप्राप्तकालम् ॥ अ. ५ आ. २ सू.११।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनं क्रममुल्लचच्यावयवविपर्यासेन प्रयुज्यमानमप्राप्तकालं नाम निग्रहस्थानं भवति ।
"अत्राह न हि पदार्थानां वाक्येषु नियतः क्रमः कश्चिदस्ति, नियतक्रमका हि वर्णाः पदतामापद्यन्त इति युक्तं तदन्तरेण तदर्थानवगमात , न हि टघ इत्यु
Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656