________________
जातिप्रकरणम् । तत्कारणान्वेषणातिप्रसङ्गात्प्रसङ्गसमो ऽयं प्रतिषेधः, प्रतिदृष्टान्वेन प्रत्यवस्थानं प्रविष्टान्तसमः ।
यया घटः प्रयत्नानन्तरीयकः सन्ननित्यो दृष्ट एवमाकाशं प्रयत्नानन्तरीयक नित्यं दृश्यते तद्वच्छब्दो ऽपि नित्यः स्यादिति, कः पुनराकाशस्य प्रयत्नानन्तरी. यकत्वं वदेत् कूपखननादिना ऽऽकाशकरणं मन्वान एवं ब्रूयादपि कश्चित् ।।
"नन्वेवमपि व्यभिचारोद्भावनमेतत्सम्यगुत्तरं नासदुत्तरप्रकारो जातिप्रयोगः" नैतदेवम् , न हि हेतोरनैकान्तिकत्वमुद्भावयन्नसौ साधुरिव जातिवादी प्रत्यवतिष्ठते ऽपि तु दृष्टान्तबलेन नित्यत्वमेव साधयन्नुत्थित इति जातिप्रयोग एवा. यम् , हेत्वाभासा अपि स्वरूपनिग्रहपुरःसरमपरहेतुप्रतिबिम्बवर्त्मना प्रदर्श्यमाना जातितां प्रतिपद्यन्त एव ।
अत्र प्रसङ्गसमस्य तावदुत्तरमाहप्रदीपोपादानप्रसङ्गविनिवृत्तिव तद्विानिवृत्तिः॥ गौ.सू.५आ.१सू.१०।
असिद्धं हि नाम साध्यते न सिद्धं प्रयत्नवैफल्यात् , सान्धकारे सद्मनिपिठरादिपदार्थदर्शनाय प्रदीपमुपाददते लौकिका न दीपदर्शनार्थ दीपान्तरपरम्परामाहरन्तीति, अन्तरेणापि हि दीपान्तराणि दृश्यत एव प्रदीपः, एवं लोकिकपरीक्षकाणां घटादौ प्रयत्नानन्तरीयकत्वस्य सिद्धत्वात्तत्र कारणापदेशो निष्प्रयोजन इति तस्मान्नायमतिप्रसङ्गापादनस्य विषयः । अथ प्रतिदृष्टान्तसमस्योत्तरम्
प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥
गौ. अ. ५ आ. १ सू. १२ । प्रतिदृष्टान्त एव साधकबुद्धया यदि त्वयोपन्यस्तस्तहि विशेषहेतुर्वक्तव्यो ऽनेन हेतुना प्रतिदृष्टान्त एव साधको न दृष्टान्त इति न चासो विशेषे हेतुरुच्यते तस्मान प्रतिदृष्टान्तः सिद्धिहेतुरिति दृशान्त एव साधको भवति, प्रतिदृष्टान्त. हेतुत्वेऽपि स्थिते सत्यहेतुदृष्टान्तोन हि साधकः स्यात् , न च तदस्तीत्युक्तमतो न हेतुईष्टान्तः,
अथ यथा प्रतिदृष्टान्तो न साधक एवं दृष्टान्तोऽपि मा भूदित्यनया नीत्या प्रत्यवतिष्ठसे हन्त तर्हि प्रतिदृष्टान्तस्य तावदहेतुत्वं स्वकण्ठेन कथित. मिति तस्मिन्नसाधके दृष्टान्त एव साधक इति ।
अनुत्पत्तिसमस्य लक्षणम् - प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ।।
गौ. अ. ५ आ. १ सू.१२। अनुपस्या प्रत्यवस्थानमनुत्पत्तिसमः प्रतिषेधः, प्राक्तन एब प्रयोगे जाति