________________
१७८
न्यायमअर्याम् . किंचिस्साधादुपसंहारः सिध्यति यथा गौरवमयं गवय इति न तु स. र्वथा रूपभेदस्तयोः कर्तुं शक्यः, प्रमाणावगतस्वभावभेदानां भावानामितरे. तररूपसंकरस्य कर्तुमशक्यत्वात्, एवं स्वप्रतिबिम्बसामर्थ्यसुस्थिते स्वसाध्य. मुत्थापयति स्थापनाहेतौ साध्यदृष्टान्तयोधर्मविकल्पमापादयता वैधयं च किं चिदभिदधता प्रतिषेधः कतु लभ्यत इति ।
अथ षष्ठस्योत्तरम्साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ गौ. अ. ५ आ. १.६ । __यदुच्यते घटोऽपि शब्दवत्साध्यो भवत्विति तन्नैवम्, लौकिकपरीक्ष काणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः तेनाविपरीततया शब्दोऽतिदिश्यते यथा घटः प्रयत्नानन्तरीयकः सन्ननित्यः एवं शब्दो ऽपीति, एवं साध्याति. देशाद् दृष्टान्त उपपद्यमाने न तस्य साध्यत्वाभिधानमुपपद्यते ।
प्राप्त्यप्राप्तिसमयोर्लक्षणेप्राप्य साध्यममाप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्यासाधक
त्वाच्च प्राप्त्यप्राप्तिसमौ ॥ गौ. अ. ५ आ. १ सू ७ । प्राप्त्यप्राप्तिविकल्पनपूर्वकमुभयत्रापि दोषापादनं प्राप्त्यप्राप्तिसमौ प्रतिषेधौ भवतः, हेतौ साधनवादिना प्रयुक्ते पर आह-सो ऽयं हेतुः प्राप्य वा साध्यं साध्ययेदप्राप्य वा? प्राप्य चेद् द्वयोर्लब्धस्वरूपयोरप्राप्तिर्भवतीति किं कस्य साध्यं साधनं वेत्यविशेषः, अप्राप्य तु साधकत्वमनुपपन्नमतिप्रसङ्गात् , न ह्यप्राप्य प्रदीपः प्रकाश्यं प्रकाशयतीति ।
अनयोरुत्तरम्- घटादिनिष्पत्तेः पीडने चाभिचारादप्रतिषेधः ॥
गौ. अ५ आ. १ सू.८ । नायं प्रतिषेध उपपद्यते उभयथाऽपि कारणस्य भावदर्शनात् दण्डचक्रसू. त्रादिकारकाणि प्राप्य मृदं घटादिकाय निष्पादयन्ति दृश्यन्ते अभिचारकर्मणा च श्येनादिना दूरस्थस्यापि शत्रोः पीडनं सम्पाद्यत इति ।
प्रसङ्गप्रतिदृष्टान्तसमयोर्लक्षणेदृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्ते प्रसा.
प्रतिदृष्टान्तसमौ ॥ गौ. अ. ५ आ. १सू . ९ । अत्र प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः, पूर्वोदाहृत एव हेतो यद्यनित्यत्वे प्रयत्नानन्तरीयकत्वं साधनं प्रयत्नानन्तरीयकत्व इदानीं किं साधनं तत्साधने किमिति दृष्टान्तस्य घटादेरनित्यतायां कारणं किं चिदपदिश्यते तेन