________________
१७७
जातिप्रकरणम् । साधर्म्यवैधय॑योरिदमुत्तरम् , यदि साधर्म्यमात्रं वैधय॑मानं वा साध्यसाधनं प्रतिज्ञायत स्यादियमव्यवस्था भवेश्च भवत्प्रयुक्तानामीहशामपि स्थापनहेतो. रविशेषः, विशिष्टं तु साधय वैधये वा प्रयोजकमुच्यमानं नैवंविधैः प्रत्यवस्थानैरुपहन्यते, यथा सत्यपि सत्तादिसामान्यसंबन्धे सत्यपि शुक्लादिगुणसंबन्धे स. त्यपि चलनादिकर्मयोगे न गौस्तथा तत्साधासिध्यति अश्वादिवैधाद्वा किं त्वव्यभिचारिणो गोत्वादिसंबन्धादेव तथेहाप्यस्खलितनियम साधर्म्य वैधयं वा साध्यसिद्धिनिबन्धनं न साधादिमात्रमिति ।
उत्कर्षभमादीनां षण्णां लक्षणानिसाध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यत्वाञ्चोत्कर्षापकर्षक.
यावर्ण्यविकल्पमाध्यसमाः ॥ गौ. अ. ५ आ.१ ५.४। दृष्टान्तधर्म साध्ये धर्मिणि योजयन्नसन्तमध्यारोपयन्नुत्कर्षेण प्रत्यवस्थान यत्करोति स उत्कर्षसमः प्रतिषेधः, यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् अनित्यः शब्दो घटवदेव मूतोंऽपि भवति न चेन्मूतों घटवदनित्यो. ऽपि तद्धर्मो मा भूदिति मूर्तस्य धर्मान्तरस्य प्रसजनमुत्कर्षः । _____ दृष्टान्तधर्मविकल्पेनैव साध्यधर्मिणि सिद्धस्यापि धर्मस्यापकर्षेण प्रत्यव. स्थानमपकर्षसमः, पूर्वस्मिन्नेव प्रयोगे घटः खलु प्रयत्नानन्तरीयकत्वादश्रा. वणोऽस्तु न चेदश्रावणो घटवदनित्योऽपि मा भूदिति सतः श्रावणत्वस्यापसरणमपकर्षः। ___ ख्यापनीयो वयः प्रतिपिपादयिषितः साध्यधर्मः तद्विपर्ययादवर्ण्यः सिद्धो दृष्टान्तधर्मः तावेतौ वावर्यसमौ प्रतिषेधौ भवतः, यदि शब्दो नित्यत्वेन वर्ण्यते साध्यते घटो ऽपि वर्ण्यतामिति वय॑समः, घटश्चेन्न वय॑ते शब्दो ऽपि मा वर्णीत्यवर्ण्यसमः ।।
धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमः प्रतिषेधः, तत्रैव प्रयोगे प्रयत्नानन्तरीयकं किं चिन्मृदु दृष्टं दुकूलरावशय्यादि किं चित्कठिनं कपरपरश्वधादि एवं प्रयत्नानन्तरीयकं किं चिदनित्यं भविष्यति घटादि किं चिन्नित्यं शब्दादीति।
उभयोरपि साध्यदृष्टान्तयोः साध्यत्वापादनेन प्रत्यवस्थानं साध्यसमः प्रतिषेधः, यदि यथा घटस्तथा शब्दः प्राप्तं तहि यथा शब्दस्तथा घट इति शब्दश्वानित्यतया साध्य इति घटोऽपि साध्य एव स्यादन्यथा हि न तेन तुल्यो भवेदिति । अत्र पश्चानामुत्तरम्किंवत्साधादुपसंहारसिद्धेवैधादप्रतिषेधः ।।
गौ. अ. ५. आ. १. मू. ५।