________________
१७६
न्यायमञ्जर्याम्
तन्न कौपीनवसनापासनादिसाम्यं जात्युतराणामिति, यत्तु कस्तै: प्रत्याय्य. त इति न सर्वः सर्वज्ञकल्पो भवति न च शाकटिकतुल्यः सन्ति हि मध्यमदशावर्तिनो जनास्त श्राराधयिष्यन्त इत्यलं प्रसङ्गेन ।
-सत्य
यत्पुनरसदुत्तराणामानन्त्यात्कथं चतुर्विंशतिसंख्येति, तत्राप्युच्यते - स प्यानन्त्ये जातीनामसंकीर्णोदाहरणविवक्षया चतुर्विंशतिप्रकारत्वमुपवरितं न तु तत्संख्यानियमः कृत इति ।
तदत्र साधम्र्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतोः तत्साधर्म्य स. मा जातिः, सा च साधर्म्यहेतौ वैधर्म्यहेतौ च प्रयुज्यते, वैधम्र्येण प्रत्यवस्थानं वैधर्म्यसमा जातिः, उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती इत्येवं सर्वत्र योग्यम, स्थापन हेतुतश्चाविशेष्यमाणत्वं जातिवाद्यभिप्रायेण तासां द्रष्टव्यम्, जातिवादी होवं वदति यथा भवत्प्रयुक्तं साधनं तथेदमपि किमिति न भवतीति, अत एव हेतु प्रतिबिम्बनद्वारक एव जात्युपन्यास इत्युक्तम् । साधर्म्यवैधर्म्य समय लक्षणे ।
अथ विशेषजक्षणान्याह तत्रसाधर्म्यषेधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्य समः॥ गौ. अ. ५ . ९ सु. २ ।
प्रतिषेधापेक्षया पुंलिङ्गनिर्देश इति तत्र तत्र द्रष्टव्यम्, साधर्म्येण वैधर्म्येण वा साधनमभिधाय सिषाधयिषितपक्षोपसंहारे साधनवादिना कृते साध्यधर्मविपर्ययोपपादनाय साधम्र्येण प्रत्यवस्थानमविशिष्य माणं स्थापनाहेतुतः साधर्म्य - समः प्रतिषेधः, तत्रैव साधर्म्येण वैधम्र्येण वोपसंहारे तथैव वैधम्र्येण प्रत्यव• स्थानं वैधर्म्यसमः प्रतिषेधः ।
उदाहरणं तु अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यत्प्रयत्नानन्तरीयकं तदनित्यं दृष्टुं यथा घट इति साधम्र्येण हतौ प्रयुक्ते जातिवादी साधम्येणैव प्रत्यवतिष्ठते - नित्यः शब्दो निरवयवत्वाद् निरवयवं द्रव्यमाकादिशादि नित्यं हष्टमिति, न चात्र विशेषहेतुरस्ति घटसाधर्म्यात्प्रयत्नानन्तरीयकत्वादनित्यः शब्दो न पुनराकाश साधर्म्यान्निरवयवत्वान्नित्य इति, वैधर्म्यहे तावपि साधनादिना प्रयुते नित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यदनित्यं न भवति तत्प्रयत्नानन्तरीयकमपि न भवत्याकाशादिवदित्यत्रैतदेव पूर्वोक्तं साधर्म्यवैधर्म्यप्रत्यवस्थानद्वयमुदाहर्तव्यमिति ।
यथा च कचिदवस स्वयं प्रयोगो जातीनामुपयुज्यत इति तत्स्वरूपव्युत्पादनमुपक्रान्तमेवं परप्रयुक्तानां तासामुत्तरमपि वक्तव्यमतस्तद्व्युत्पादनार्थमाहगोत्वाद्गोसिद्धिवत्तत्सिद्धि: ।। गौ. अ. ५ आ. १ सू. ३ |