________________
जातिप्रकरणम् ।
'छल जातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थ उपलतितानां स्ववाक्ये परिवर्जनं परवाक्ये च पर्यनुयोगः जातेस्तु परेण प्रयुज्यमानायाः सुवचः समाधि स्वयं च सुकरः प्रयोग' इति, यदा हि मुमुक्षोरागमाद्वा युक्तितो वा तत्त्वज्ञानमु. त्पन्नं न चायापि भावनाभ्यासप्रसादसमासादितद्रढिमातिशयं वर्तते तस्यामव. स्थायां यदि केन चित्किमप्यनुमानप्रायमभिधाय तदा व्याकुलीक्रियते तदासौ विदितयुक्तयागमगौरवो ऽपि सपदि तदुत्पादिते तत्वज्ञाने मनागसंभावनालेश. मिवाधिगच्छेत् , तस्मिन्वा दृढप्रत्यये ऽपि तत्पार्श्ववर्तिनः शिथिलास्था भवेयुः, अतो झगिति स दूषणमपश्यन्प्रतिपक्षं जातिप्रयोगैरप्यसौ शमयेदेव नोदासीते. त्युक्तं जल्पलक्षणे, परोदिता वा जातीः प्रत्यभिज्ञाय तत्क्षणमेव परिहरेदिति सफलं जातिव्युत्पादनम् , यथा क चिदचिरव्युप्तसस्ये संप्रत्युद्भिद्यमानकोमलाङ्क: रनिकरदन्तुरितसीमनि केदारे तदुपद्रवो द्रततरगामिनो यतः कुतश्चन चतुष्पदाद् द्विपदाद्वा ऽभिशङ्कयते इति तत्परिहाराय समन्ततो निरन्तरकण्टकशाखा. संततिपरिचरणमाधीयत एवमिहापि जात्यादिप्रयोगः, तद्वारकं तस्वाध्यवसा. यसंरक्षणं कर्तव्यम् ।
यत्तु विकल्पितं क जातेः प्रयोगः सम्यक्साधने तदाभासे वेति, तदुच्यतेसम्यग दूषणमपश्यता किल जात्यादि प्रयोक्तव्यं तच्च सम्यक्साधने तदभावा. देव भवतु साधनाभासे वा प्रमादादिना वेति को ऽत्र विशेषः, मुमुक्षोस्तु ज्ञात. तत्त्वस्य तत्प्रतिकूलवादिना केन चिदाक्षिप्तस्य तत्प्रयुक्त तत्वप्रतिक्षेपबलात्सा. धनाभास एव सम्यग दूषणमपश्यतो जातिप्रयोगावसरः, ज्ञात्वापि साधनाभा. सतां यथा तथा सत्वरमेव निर्भयंतामयं दुराचार इति पार्श्वस्थितसुकुमारमा तिशिष्यजनोत्साहजननाय जात्याद्याडम्बरविरचनमुचितमेव मुमुक्षोः, मुमुक्षु प्रति च शास्त्रारम्भादाक्रम्येन तदपेक्षया साधनाभासविषय एव जातिप्रयोगः, अत एव च भाष्यकृता प्रथमं साधनाभास एव जात्युदाहरणं दर्शितम् , लाभादिकामानां तु सम्यक्साधने ऽपि प्रयुक्ते युक्त एव जात्याधुपक्रमः, इतरथा हि नि:संशय एव पराजयः स्यादित्येतच्चानुषङ्गिक प्रयोजनमित्युक्तम्। ..
यत्पुनरभिहितमसदुत्तरकथने कथं न चपेटादिकं प्रयुज्यते इति, तदप्यसत्तस्यात्यन्तमलौकिकस्वात् , लोको हि तदेवं मन्यते--
नूनमैष न जानाति वक्तं सदृशमुत्तरम । अन्यथा वाचमुत्सृज्य पाणिना प्रहरेत्कथम् ।। खेदयेद्वादिनं यस्तु हस्तपादादिचापलैः । स संसधुच्यते सद्भिर्भण्ड एव न पण्डितः ॥ जात्योपक्रममाणस्तु न तथैव विहस्यते । न हि संदूषणच्छाया तत्रात्यन्तमसंगता ।।