________________
१७४
न्यायमञ्जयाम् विदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्य विशेषोपपत्युपलब्ध्य.
नुपलब्धिनित्यानित्यकार्यसमाः ॥
गौ. अ. ५ आ. २ सु. २ । अत्र समा इति स्त्रियां पुंसि च तुल्यत्वान्निर्देशस्य जात्यपेक्षया स्त्रीनिर्देशो वा प्रतिषेधापेक्षया वा पुंनिर्देशो वर्णनीयः, विशेषलक्षणसूत्रेषु पुनः प्रायेण पुंलिङ्गनिर्देशो दृश्यते स तु प्रतिषेधापेक्षया तेषु व्याख्येय इति तयाख्यानावसर. एक वक्ष्यामः ।
जातिव्युत्पादनपरीक्षा"नन्वास्तां तावद्विशेषलक्षणवर्णनम् इदमेव त्वादी चिन्त्यताम्--किमर्थ. मेवंविधमसदुत्तरजातं शास्त्रे व्युत्पाद्यते,
एवंप्रकाराणां च धूलिप्रक्षेपसदृशानां सारेतरपरीक्षणक्षमविचक्षणोपेक्षणीयानामसदुत्तराणामानन्त्याचतुर्विशतिसंख्याऽपि कथमिति मनसि महान्वि. स्मयो ऽस्माकम् ,
यदपि च तत्त्वाध्यवसायसंरक्षणं तत्प्रयोजनमभिधीयते तदपि न हृदयंगमम् , असदुत्तरोपन्यासेन तत्त्वाध्यवसायस्य संरक्षितुमशक्यत्वात् ,
अथ विकटाटोपप्रकटनपाटवोपहितापरसंमोहनद्वारेण तद्रक्षणमास्थीयते . तहि ष्ठीवितहसितांसमदनकौपीनावरणविदारणचरणावस्फोटनाद्यपि व्युत्पाद्य. तामिह मोक्षविद्यायाम् , . तथा ऽपि चेदं विचार्यताम् क जातिप्रयोगैः प्रत्यवस्थेयम् , सम्यक्साधने परेण प्रयुक्ते तदाभासे वा, न तावत्साधनाभासे तस्य हि येन निमित्तेनासिद्ध. त्वादिना साधनाभासत्वमुपनतं तदेव तत्र प्रयोक्तुमुचितं न जातयः, तेनैव च परः पराजीयते, नापि सम्यक्साधने तत्र प्रयुक्तानामपि तासामकिंचित्कार्यकरत्वात् , न हि जातिप्रयोगकलुषितमपि सम्यक्साधनमसाधनीभवितुमर्हति ।
अथैकान्तपराजयाद्वरं संदेह इति ताभिरुपक्रमते तत्रापि स तथोपक्रममाणः कमिव प्रत्याययेत्, नीतिविदस्तावज्जानन्त्येव सोऽयं यथोचितमभिवदितुमपार. यन्किमप्यालजालमालपितुं प्रवृत्त इति, शाकटिकादिप्रत्यायनाथै तु प्रत्यन्तगह्वरजनपदेषु ग्राम्यसदसि लाभादिकामस्य कस्य चित्प्रयोजनवद्भवेदपि कदा चिन्न तु मोक्षशाख तथाविधोपदेशः पेशल इति"। - अत्राभिधीयते--समाहितमेतद्भगवता सूत्रकारेणैव तत्स्वाध्यवसायसंरक्षणाथै कण्टकशाखापरिवरणवदिति वदता, जल्पवितण्डाङ्गभूतानि च च्छला. दीनि, तदुक्तं-'छलजातिनिग्रहस्थानसाधनोपालम्भो जल्प' इति, भाष्यकृदयाह