________________
जातिप्रकरणम् । सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथगिष्यते तर्हि वागुपचारच्छले अपि भिद्यते एवेति दर्शितमतो युक्तं भवत्विदम , न चानन्यामयत्तानियमकारिणो निमित्तत्रयस्य दर्शितत्वात-अवान्तरभेदकृतं तु तदानन्त्यमिष्यते एव जाति. वदित्यलं प्रसङ्गेन ।
तस्मात्परस्परविविक्तनिजस्वरूपमीहक् छलत्रितयमेतदिहोपदिष्टम् । तस्य कचित्स्वयमपि क्रियते प्रयोगोवाच्यः परैरभिहितस्य तथा समाधिः॥
इति (१४) छलपदार्थः । इति श्रीमद्भट्टजयन्तकृतौ न्यायमञ्जर्यामेकादशमाहिकम् ॥ ११ ॥
अथजातिप्रकरणम् । छलानन्तरं जातेरुद्देशात्तस्याः सामान्यलक्षणं तावदाहसाधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः ॥
गौ. अ. १ आ. २ सू. १८ । । अत्र त्रैकाल्यसमादिसकलविशेषसंग्रहाय साधर्म्यवैधादिनिरपेक्षमेव प्र. त्यवस्थानपदं जातिसामान्यलक्षणप्रतिपादकमाहुः, प्रतीपमवस्थानं प्रत्यवस्थानं तावन्मात्रमेव च यत्किं चिदुत्तरं परप्रयुक्त हेतौ जायमानत्वाज्जातिरित्य.. भिधीयते,
तदनुपपन्नम्-प्रत्यवस्थानमात्रस्य साधादिनिरपेक्षस्य जातित्वे हेत्वाभासोदावनमपि जातितामश्नुवीत ।
अथ तस्य सम्यगुत्तरत्वादिह च निर्विशेषणप्रत्यवस्थानमात्रोपपादनाफल्गुप्रायमसदुत्तरं जातित्वेन विवक्षितमित्युच्यते, तथापि छलस्य जातित्वप्रसक्तिरपरिहार्यैव, तव्यदासाय तु तदन्यत्वे सतीत्यादिकं यदि किं चिदध्या. ह्रियते तदमुष्य श्रयमाणस्य साधर्येण वैधयेण वा प्रत्यवस्थानमस्तीति नेष दोषः साधर्म्यवैधाभ्यामित्यसमासकरणेन दिकप्रदर्शनस्य सूचनात् । सा. धर्येण वैधम्र्येण वा कथमेष हेतुहेतूभवतीति वा किमनेन क्रियते इति वा यदेवं. प्रकारप्रत्यवस्थानं हेतुप्रतिबिम्बवर्त्मना क्रियते सा भविष्यति जातिरित्युच्यमा. ने सकलविशेषसंग्रहः काल्यसमादिष्वपि यादृशस्य ताशस्य साधय॑वैधर्म्यप्र. कारस्य योजयितुं शक्यत्वात् , न ह्युदाहरणसाधय साध्यसाधनमिह विवक्षितं तद्वैधयं वा साधादिमानं तु तत्रापि नात्यन्ताय दूरगमिति यथाश्रुतं साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिरिति सामान्यलक्षणं युक्तम् । ..
अथ भेदवत्त्वाजातेश्चतुर्विंशतिधा विभागमाहसाधर्मावैधयोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्र