________________
१८०
न्यायमञ्जाम् वाद्याह अनित्य इत्युत्पत्तिधर्मक उच्यते यश्चोत्पत्तिधर्मकः तस्योत्पत्तेः पूर्वमनुत्पत्त्या भवितव्यमनुत्पन्ने च शब्दाख्ये धमिणि प्रयत्नानन्तरीयकत्वं धर्मः क वर्ततामलब्धपक्षवृत्तेश्च कथमनित्यत्वं साधयत्वसिद्धे चानित्यत्वे शब्दस्य बलानित्यत्वमेव भवति कारणाभावादित्यनित्यत्वसिद्धिकारणस्य प्रयत्नानन्तरीयकस्वस्याभावादित्यर्थः, तथा च शब्दोत्पादककारणाभावादनुत्पन्ने शब्दे निराश्रयो हेतुरिति । अस्योत्तरम्तथाभावात्पन्नस्य कारणोपपत्तेने कारणप्रतिषेधः ॥
गौ. अ. ५ आ. १ सू. १३ । शब्दाख्यधर्मिणः सिद्धस्य सतो नित्यत्वमनित्यत्वं वा विचार्यते तदसिद्धी हि नित्यत्वमपि कस्य भवानभिदधीत, उत्पन्नस्य चास्य तथाभावो भवति नानु. त्पन्नस्य, उत्पन्नः खल्वयं शब्द इति भवति नानुत्पन्नः, प्रागुत्पत्तेरलब्धात्मनः किमुच्यते, लब्धस्वरूपस्य पुनरनित्यत्वकारणप्रयत्नानन्तरीयकत्वसद्भावादयुक्त एवायं प्रतिषेधः ।
संशयसमस्य लक्षणम्नित्यानित्यत्वसाधासंशयसमः ॥ गौ. अ. ५ आ. १सू.१४ ।
नित्यानित्यसाधोपन्यासेन संशयापादनप्रवणं प्रत्यवस्थानं संशयसमः प्रतिषेधः, अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यस्मिन्नेव हेतौ अस्ति श. ब्दस्यानित्यत्वसाधम्य प्रयत्नानन्तरीयकत्वमस्ति च नित्येन सामान्येन साधhमैन्द्रियकत्वमतः किमनित्यसाधर्म्यात्प्रयत्नानन्तरीयकत्वादनित्यः शब्द उत नित्यसाधादैन्द्रियकत्वान्नित्य इति संशय एवं परः प्रत्यवतिष्ठते, न च साध>समप्रयोग एवायमाशङ्कनीयः संशयापादनप्रवणत्वादस्येति ।
अस्योत्तरम्साधासंशये न संशयो वैधादुभयथा वा संशये ऽत्यन्त. संशयो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ॥
गौ. अ. ५ आ. १ मू. १५।। स्थाणुर्वा पुरुषो वेति स्थाणुपुरुषयोश्च साधादूर्ध्वत्वादेः संशयो भवति म तु शिरःपाण्यादिवैधात्प्रत्युत ततो ऽसौ निवर्तते यदि पुनरुभयथापि साधादिव वैधादपि संशयः स्यात्तथा सत्यनन्तसंशयः प्राप्नोति, इह च विशेषदर्शनस्थानीयमनित्यतासाधनं शब्दे प्रयत्नानन्तरीयकत्वमस्तीति नित्यत्वं सामान्यगतं संशयकारणत्वमिति नाभ्युपगम्यते तस्मादप्रतिषेधो ऽयं नित्यसा. मान्यसाधयनिबन्धनसंशयापादनरूपः ।