________________
जातिप्रकरणम् ।
१८१
प्रकरणसमस्य लक्षणम्उभयसाधयात्प्रक्रियासिद्धेः प्रकरणसमः ॥
गौ. अ. ५ आ. १ मू. १६ । पक्षप्रतिपक्षी निर्णयलक्षणे व्याख्यातो तावेव प्रकरणं प्रकरणमनविवर्त्तमानः प्रकरणसमः प्रतिषेधो भवति, पूर्वस्मिन्नेव प्रयोगे नित्यः शब्दो निरवयव. वादाकाशवदित्येवञ्जायतीयकं प्रतिप्रयोगमुपन्यस्यन्स्वपक्षमुत्थापयति जाति. वादी, साधम्यग्रहणं चोपलक्षणं वैधयेणापि प्रतिप्रयोगोपन्यासे प्रकरणसम एव प्रतिषेधो भवत्युभयवैधात्प्रक्रियासिद्धेः प्रकरणसम इति, मूलहेतावपि साधः येण वैधर्येण वा प्रयुक्त प्रयोगद्वयमेतद्वेदितव्यम् , __"ननु ते एवैते साधर्म्यवैधर्म्यसमे जाती साधर्म्यहेतौ वैधर्म्यहेतौ वा प्रयुज्य. मानत्वाच्च तवोत्थिते इति ताभ्यामेव गतत्वान्नाभिनवो ऽयं जातिप्रयोगः चतस्र. श्चैता जातय इत्येकत्वमपि न सङ्गतम्" • उच्यते-तत्र परपक्षप्रवणप्रतिषेधतयैव प्रत्यवस्थानमुदाहृतमिहैव साधनच्छाययेति, अत एव प्रकरणसमो ऽयं जातिरनित्यपक्षवनित्यपक्षो ऽपि प्रति. क्रियते ऽस्यामिति, उद्भावनभङ्गिभेदाच्च जातिनानात्वमसङ्कीर्णोदाहरणविवक्षया चतुर्विशतिभेदत्वं वस्तुतस्तु तासामानन्त्यमित्युक्तम् ।
अत्रोत्तरमप्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ।।
अ.५ आ. १ स. १७ । निर्णयोत्पत्त्या प्रकरणं पर्यवसितं भवति प्रागुक्तनिर्णयात्तदवस्थानमेव तदिह प्रकरणमुत्थापयता भवतोभयसाधम्यं तदुत्थापनकारणमभिहितमुभय. साधर्म्यात्प्रक्रियासिद्धरिति ब्रवता उभयसाधर्म्य च मदुक्तमपि साधर्म्यमस्त्येव अन्यथोभयशब्दार्थः कः, एवं च तदभ्यनुज्ञातं भवतीति तत्प्रतिषेधो नोपपद्यते प्रतिषेधोपपत्तौ वा नोभयसाधर्म्य प्रकरणकारणं सिध्यतीति निर्णयोत्पत्तिनि. मित्तं च प्रकरणोपरमाय न किं चिदुक्तमुभयसाधाभिधानादिति ।
अहेतुसमस्य लक्षणम्--- त्रैकाल्यानुपपत्तोरहेतुसमः ॥ गौ. अ. ५ आ. १सू. १८ ।
कालत्रयानुपपत्त्या हेतुमाक्षिप्य क्रियमाणः प्रतिषेधो ऽहेतुसमो भवति, हेतः साधनं साधनं च साध्यात्पूर्व साधनं तदसति साध्ये कस्य साधनम् अथ पश्चाद् असति साधने कस्येदं साध्यम् अथ युगपत्साध्यसाधने भवतः न तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभावो भवेदित्ययं हेतुरहेतोर्न विशिष्यते ।