________________
१८२
न्यायमञ्जर्याम् अस्योत्तरम्
न हेतुत: साध्यसिद्धस्त्रैकाल्यासिद्धिः ।।
गौ.अ. ५ आ. १ सू. १९ । न त्रैकाल्यासिद्धिः, कस्माद् ? हेतुतः साध्यसिद्धेः उत्पत्तो तावदयमपर्यनु. योगः पूर्वसिद्धन हेतुना तन्त्वादिना पश्चाद्भाविनो ऽसत एव कार्यस्य पटादेः सिद्धिरित्युक्तत्वात् , 'बुद्धिसिद्धं तु तदसदिति ज्ञप्तावपि परिहृत एष दोषः उप. लब्धिहेतोरुपलब्धिविषयस्य पूर्वापरसहमावानियमाद्यथादर्शनं व्यवस्थेति प्रमा. णपरीक्षायामभिधानात् दृश्यते च निर्वतनहेतुना निर्वर्तनीयस्य निवृत्तिरुपलब्धि. हेतुना चोपलभ्यस्योपलम्भ इति प्रमाणसिद्धे वस्तुनि को ऽयमाक्षेपः । प्रतिषेधे च तुल्यो ऽयमनुयोग इत्याहप्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥
आ. गौ. ५ आ. १. सू. २० । प्रतिषेधो ऽपि प्रतिषेध्यात्पूर्व पश्चात्सह वा भवेदिति विकल्प्यमाने न प्र. तिषेभ्यं प्रतिषेधुमुत्सहत इति ।
अर्थापत्तिसमस्य लक्षणम् - अर्थापतितः प्रतिपक्षसिद्धरापत्तिसमः ॥ अ. ५ आ. १ सू. २१
अर्थादापद्यते प्रतिपक्षसिद्धिरित्येवं क्रियमाणः प्रतिषेधो ऽर्थापत्तिसमो भ. वति, पूर्वस्मिन्नेव प्रयोगे यदि घटसाधात्प्रयत्नानन्तरीयकत्वादनित्यः शब्दः अर्थादापद्यते आकाशसाधयान्नित्य इति, अस्ति चास्य नित्येन साधर्म्यमाकाशादिना द्रव्येण निरवयवत्वमिति, उद्भावनप्रकारभेदाच जातिभेद इत्युक्तम् ।
अस्योत्तरम्- अनुक्तस्यार्थादापत्तेः पक्षहानेरुपपत्तिः ।। अ.५ आ. १ सू. २२ ।
अनुपपादितसाधनमनुक्तमादापद्यत इति वदतः पक्षहानिरप्युपपद्यते मा. मकानित्यपचसिद्धौ हि सत्यामर्यादापद्यते तावकस्य नित्यपक्षस्य हानिरिति । दोषान्तरमाह
अनैकान्त्रिकत्वाचार्थापत्तेः ।। अ. ५ आ. १ सु. २३ । उभयपक्षसमर्थेयमापत्तिः विपर्ययेणापि प्रयोक्तुं शक्यत्वात् , नित्यः शदो निरवयवत्वादित्येवमप्युक्ते शक्यं वक्तुं यदि नित्याकाशसाधान्निरवयव. स्वान्नित्यः शब्दः अर्थादापद्यते यदनित्यघटादिसाधान्प्रयत्नानन्तरीयकत्वादनित्य इति-न चैवमपि काचिदर्थसिद्धिः न खलु वै घनस्य प्रावणः पतनमिस्युक्ते ऽर्थादापद्यते द्रवस्य वारिणः पतनाभाव इति ।