________________
जातिप्रकरणम् ।
आविशेषसमस्य लक्षणम्एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भावोपपत्तेर- .
विशेषसमः ॥ अ. ५ आ. १ सू. २४ ।। अविशेषोपपादनेन प्रत्यवस्थानमविशेषसमः प्रतिषेधः, यदि शब्दघटयोरे। कधर्मः प्रयत्नानन्तरीयकत्वमस्तीति तयोरनित्यत्वाविशेष उच्यते तहि सर्वभा. वानामविशेषप्रसङ्गः, कथं सद्भावोपपत्तेः सत्तासंबन्धादित्यर्थः, सो ऽयमविशेषसमः प्रतिषेधः। एतस्योत्तरम्कचित्तद्धर्मोपपत्तेः कचिदनुपपत्तेः प्रतिषेधाभावः ॥
गौ. अ. ५ आ. १ सू. २५ ।। कचिदविशेषापादनहेतुरुपपद्यते धर्मः क्व चित्तु नोपपद्यत इत्येवमयमप्रति. षेधः, शब्दघटयोरेको धर्मः प्रयत्नानन्तरीयकत्वमस्ति येन तयोर्धर्मान्तरमविशेषरूपमुपपद्यते न तु सर्वभावानामीशमविशेषकारणं धर्मजातमस्ति , यत्तु स. द्भावोपपत्तेरिति तेन किं धर्मान्तरमविशेषरूपं साध्येत अनित्यत्वमेवं चेत्तीयं प्रतिज्ञार्थों व्यवतिष्ठतानित्याः सर्वे भावाः सत्त्वादिति, न चायमनुपपत्त दृष्टान्तानुपपत्ते; सर्वभावानां पक्षीकृतत्वाद् दृष्टान्तो न कश्चिदवशिष्यते, न च प्र. तिज्ञातैकदेश एव दृष्टान्तीकर्तुं शक्यते सिद्धसाध्यभेदात्साध्यः प्रतिज्ञातो ऽथों भवति सिद्धश्च दृष्टान्तः, न च दृष्टान्तरहितो हेतुः स्वसाध्योपस्थापनसामथ्यमश्नुते, न च सौगतोक्तनीत्या नित्येभ्यो व्यापकानुपलब्ध्या सत्त्वं व्यावर्तित. मनित्येष्वेव प्रतिष्ठां लभते यैव विपक्षाद्यावृत्तिः स एव साध्येनानुगम इति व. क्तव्यम्, तन्नीते: प्रागेव प्रतिक्षेपात् , प्रत्युक्तं हि विस्तरतः क्षणभङ्गसाधनमिति, किं चिद्धि सत्त्वयोगि भावरूपमनित्यं भवति किं चिन्नित्यमिति नायमेकान्तः सत्त्वादनित्याः सर्वभावा इति, अपि च सर्वभावानामनित्यत्वे साध्यमाने तद. न्तर्गतत्वाच्छब्दस्याप्यनित्यत्वमभ्युपगतं भवेदित्येवमप्ययमप्रतिषेधः ।
उपपत्तिसमस्य लक्षणम्उभयकारणोपपत्तेरुपपत्तिसमः। अ. ५ आ. १ सू. २६
उभयकारणोपपत्त्या पक्षद्वयोपपत्तिवर्णनमुपपत्तिसमः प्रतिषेधः, यद्यनित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते शब्दस्येत्यनित्यः शब्दो नित्यत्वकार. णमपि निरवयवत्वमस्योपपद्यते इति नित्यः स्याद् उभयत्रापि कारणोपपत्तेः, _ "ननु सैवेयं साधादिसमा प्रकरणसमा वा जातिन भेदान्तरम्” मैवम् उद्भावनप्रकारेण भेदात्परपक्षोपमर्दबुद्धया साधादिसमा जातिः प्रयुज्यते पक्षा. न्तरोत्थापनास्थया प्रकरणसमा अप्रतिपत्तिपर्यवसायित्वाशयेनेयमुपपत्तिसमेति ।