________________
न्यायमञ्जर्याम्
अत्रोत्तरम् - उपपत्तिकारणानुज्ञानादप्रतिषेधः । अ. ५ आ. १ सू. २७
उभयकारणोपपच्या प्रतिषेधमभिधता पक्षद्वय कारणोपपत्तिरनुज्ञाता भवति सा चेदनुज्ञाता कथमेकतरपक्षप्रतिषेधः, एकतरपक्षप्रतिषेधश्चेत्कथमुभयकारगोपपत्ति: उभयपक्षकारणोपपत्तिरेकतरपक्षप्रतिषेधश्चेति विप्रतिषिद्धम्, व्याघातादेव तत्प्रतिषेधो विकल्पयिष्यत इति चेत्समानो व्याघातस्तेन हि परपक्षवत्स्वपक्षो ऽपि प्रतिहन्यत एव न हि व्याघात एकं पक्षं साधयत्येकं बाधत इति । उपलब्धिसमस्य लक्षणम् -
निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः प्रतिषेधः ॥ गौ. सू. अ. ५ आ. १ सू २८ ।
यदेतदनित्यतायां शब्दस्य प्रयत्नानन्तरीयकत्वं कारणमपदिष्टं तस्याभावे - Sपि प्रबलप्रभञ्जन जवभज्यमानजरत्पादपपातप्रभवे शब्दे दृश्यत एवानित्यत्वमन्यत्रापि विद्युदादौ विनाऽपि प्रयत्नानन्तरीयकत्वमुपलभ्यत एवानित्यतेति । अत्रोत्तरम् -
१८४
कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥ गौ. सू. अ. ५ आ १ २९ ।
अतावदेव तावद्वक्तव्यं सपक्षैकदेशवृत्तित्वमिदमस्य हेतोरुद्भावितं न च सपक्षैकदेशवृत्तिरगमकः, प्रयत्नानन्तरीयकत्वमनित्यत्वप्रतिबद्धं न पुनरनित्यत्वं प्रयत्नानन्तरीयकत्वेन यत्प्रयत्नानन्तरीयकं तदनित्यमिति हि व्याप्तिर्न तु यदनित्यं तत्प्रयत्नानन्तरीयकमिति, यथा यत्राग्निस्तत्र धूमो न यत्र धूमस्तत्रानिरिति एवं प्रयत्नानन्तरीयकत्वमन्तरेण समीरणपात्य मानवनस्पत्यादिशब्दे विद्युदादौ वा येयमनित्यतोपलब्धिर्न सा तस्य हेतुतामपहन्तीति, अपि च प्रयत्नानन्तरीयकत्वादिति कारणाद् उत्पत्तिरियमभिधीयते न तु कारणं नियम्यते प्रयत्न एवेति तत्र पवननोदनजनिततरुशब्दवत्सत्यपि प्रयत्ने कारणान्तरं तदुत्पादकम्भविष्यति कारणान्तरजन्येऽप्यनित्यत्वं शब्दे विद्युदादौ वा न वि - रुद्धमिति, कथं पुनरिदमेव गम्यते प्रयत्नादिभिरसन्नुत्पाद्यते शब्दो न पुन: सन्नभिव्यज्यत इति, सतोऽनुपलब्धौ निमित्ताभावात्, आवरणं निमित्तमिति चेन्न, मूलोदकादिषु मृद इव शब्दे कस्यचिदावरणस्याग्रहणात् तस्मान्न मूलोकादिना तुल्यः शब्द इत्यसन्नेव प्रयत्नादिना क्रियते इति ।
"
अनुपलब्धिसमस्य लक्षणम् -
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः प्रतिषेधः ॥ गौ. सु. अ. ५ आ. १ सू ३० ।