________________
जातिप्रकरणम् ।
१८५ यदुक्तमावरणामुपलम्भादसत्याश्चानुपलम्भादसल्यावरणे प्रागुवारमादसन्ने. व शब्दः प्रयलेनामिनिर्वर्त्यत इति तदयुक्तमावरणानुपलब्धेरप्यनुलम्भाचस्या शानुपलम्भोदभावः अनुपलब्धेरभावादुपलब्धिर्भवति प्रतिषेधद्वयेन विधेरेव प्रतीतेः, आवरणोपलब्धेश्चावरणसत्ता सिध्यतीति प्रकृतमेव शब्दस्याग्रहणं नासस्वकृतमित्यभिव्य अकत्वकृतमेवास्य प्रयत्नादि कारणमिति ।
अस्योत्तरम्--- अनुपलम्भात्म(क)त्वादनुपलब्धेरहेतुः॥ गौ. सू. अ. ५ आ. १सू ३१
आवरणानुपलब्धि स्स्यनुपलब्धेरिति योऽयं हेतुरुक्तः स न हेतुः अनुप. लम्भस्वभावत्वादनुपलब्धेरुपलम्भप्रतिषेधार्थकत्वादित्यर्थः, अस्त्वित्वनास्तित्वे हि भावानामुपलम्भानुपलम्माभ्यामवस्थाप्यते यदुपलभ्यते तदस्ति शशवद् यन्नोपलभ्यते तन्नास्ति तद्विषाणवत् , नोपलभ्यते च शब्दस्यावरणं मूलोदका. देरिव मृत्तिकेत्यनुपलम्भानास्तीति गम्यते, अनुपलम्भो ह्ययमावरणविषयो नानुपलब्धिविषयः स आवरणस्यैव भावं गमयति नानुपलब्धेरित्यनुपलब्धेभो. वादावरणमेव नास्तीति । ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥
गौ. सू. अ. ५ आ. १ मू. ३२ । ज्ञानविकल्पाः प्रतीतिप्रकारास्तेषां भावाभावौ प्राणिसंवेद्यौ भवतः, अस्ति मे ज्ञानं नास्ति मे ज्ञानमित्येवं सर्वः प्रत्यक्षानुमानागमज्ञानानि प्रमाणफलानि स्मरणसंशयादिज्ञानानि च प्रमाणफलान्यनुभवतीति, सा चेयमावरणानुपल. ब्धिरुपलब्धिवदध्यात्म संवेद्यते नोपलभे शब्दस्यावरणं मृदमिव मूलोदकादे. रिति, तदेवं बाह्यपदार्थभावाभाववदान्तरज्ञानभावाभावयोरपि प्रत्यक्षत्वादपर्य: नुयोगोऽयमनुपलब्धेरनुपलम्भादावरणमस्ति शब्दस्येति तस्मात्प्रामुधारणादस. नेव शब्द इति सिद्धम् । .
अनित्यसमस्य लक्षणम् --- साधात्तुल्यधर्मोपपर्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः॥
गौ. सू. अ. ५ आ. १ मृ ३३।। सर्वभावानित्यत्वप्रसङ्गेन प्रत्यवस्थानमनित्यसमः प्रतिषेधः, अनित्येन घटे. न साधर्म्यमस्ति शब्दस्येति तस्यानित्यत्वमुच्यते तर्हि सर्वभावानामपि घटेन किमपि साधर्म्यमस्तीति सर्व एवानित्याः स्युः, अविशेषसमैवेयं जातिरिति चेत्, तत्र हि सत्तायोगात्सर्वभावानामविशेष आपादितः इह तु घटसाधादेवानित्यत्वमापादितम् इति उद्भावनभङ्गिभेदाच्च जातिनानात्वमित्यसकृदुक्तम् ।