________________
१८६
न्यायमअर्याम् अत्रोत्सरम-- साधम्यादतीसर्द्धः प्रतिषेधासिद्धिः प्रतिषेध्यसाधात् ॥
गौ. सू. अ. ५ आ. १ मू. ३४ अतिप्रसङ्गमापादयतो ह्येतद्विवक्षितं घटसाधादसिद्धिरनित्यत्वस्येति, यदि च घटसाधादनित्यत्वस्यासिद्धिस्तहि तावकस्यास्य प्रतिषेधवाक्यस्याप्यसिद्धिः प्रतिषेध्यवाक्यसाधात् , अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्येन साधय प्रतिज्ञाद्यवयवयोगित्वमिति, किं च
दृष्टान्ते साध्यसाधनभावन प्रतिज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथा भावान्नाविशेषः ॥ गौ. मू. अ. ५ आ. १सू. ३५
न हि साधर्म्यमानं साधनं भवति अपि तु दृष्टान्तर्मिण्यवधृतसामर्थ्य साधर्म्य वैधयं वा तथाविधं चेत्सर्वभावानामस्ति भवतु तेषामनित्यत्वं को दोषः नास्ति चेत्को ऽयमतिप्रसङ्गः, न हि दृष्टान्तर्मिणि प्रज्ञातसामर्थ्य साधर्म्यमुभयथा भवति पक्षान्तरं स्पृशति तेन साधर्म्यविशेषस्य हेतुत्वात्तस्य च सर्वत्रासंभवान्न सर्वानित्यत्वम् , अविशेषसमायां जातौ यत्साधनमुक्तं तदिहाहि वक्तव्यमिति ।
नित्यसमस्य लक्षणम्नित्यमनित्यभावादनित्ये नित्य(त्वो)पपत्तेर्नित्यसमः ॥
गो. मू. अ. ५ आ. १सू. ३६ अनित्यत्वसाध्यधर्मस्वरूपविकल्पनेन शब्दनित्यत्वापादानं नित्यसमः प्रति. षेधः, अनित्यः शब्द इति प्रतिज्ञाते सति जातिवादी विकल्पयति किमिद मनित्यत्वं शब्दस्य नित्यमथानित्यमिति, यदि तावदनित्यं तत्कदा चित्प्रच्य. वते तत्प्रच्युतेनित्यः शब्दः, अथ नित्यमनित्यत्वं तर्हि धर्मस्य नित्यत्वात्तस्य च निराधारस्यानुपपत्तेस्तदाश्रयस्य शब्दस्यापि नित्यत्वमनित्यत्वे हि शब्दे विनष्टे न तदाधारो धर्मो वर्तेतेति ।
अस्योत्तरमप्रतिषेध नित्यमनित्यभावादनित्यत्योपपत्तेः प्रतिषेधाभावः ।।
गो. सू. अ. ५ आ. १ सू. ३७ । - प्रतिषेध्ये नित्यमनित्वस्य भावश्चेदुच्यते तदनित्य एवासावुक्तो भवति अनित्योपपत्तश्च तत्प्रतिषेधो नोपपद्यते नित्यमनित्यत्वं शब्दस्येति च ब्रवीषि नित्यतां च तद्योगादस्योपपादयसीति महानयमायुष्मतो भ्रमः, अथ निरधिकरणो धर्मः कथं स्यादिति तदुच्यते अनित्यत्वं हि नाम निरोधः प्रध्वंसाभाव