________________
जातिमकरणम् ।
१८७ इत्यनान्तरम् , अनित्यत्वादभाव इति तु व्यवहारमात्रम् , सा चेयमनित्यता शब्दावच्छिन्ना न शब्दाधिकरणा न खलु घटाभावो घटाश्रितो भवितुमर्हति भावस्वभावा हि धर्मा धाश्रिता भवन्ति नाभावः अभावस्त्वाश्रितो ऽपि न प्रतियोग्याश्रितो भवति किं त्वर्थान्तरवृत्ति प्रदेश इव घटाभाव इति नित्यानित्यत्वविरोधाच, नित्यत्वमनित्यत्वं चैकत्र धर्मिणि विरुध्यते तत्कथमभिधीयते नित्यमनित्यत्वस्य भावान्नित्यः शब्द इति ।
कार्यसमस्य लक्षणम्प्रयत्नकार्यानेकत्वात्कार्यसमः ॥ गौ. सू. अ. ५ आ. १ मू. ६८
प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्था कार्यसमः प्रतिषेधः, अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते पर आह प्रयत्नस्य हि कार्यद्वैविध्यमुपलब्ध किं चिदसदेव प्रयत्नेन निर्वर्तते यथा घटादि किं चित्सदेवावरणव्यपनयनादिना प्रयत्नेनाभिव्यज्यते यथा मृदन्तरितमुदकादि, एवं प्रयत्ननानात्वादिह प्रयत्नेनाविद्यमानः शब्दो निर्वयेत घटवदुत विद्यमान एवाभिव्यज्येत मृदन्तरितसलि. लादिवदिति संशयः, न चेयं संशयसमा जातिहत्वर्थविकल्पनेनेह प्रयवस्थानात् , तथा हि निरवयवत्वाद्याकाशसाधोपन्यासेन संशय अपादित इह तु साधनवाद्युक्तप्रयत्नानन्तरीयकत्वहेत्वर्थनिरूपणेनेति, उद्भावनप्रकारभेदश्च जातीनां वैचित्र्यकारणमित्युक्तमेव ।
अत्रोदाहरणमकार्यान्यत्वे प्रयवाहेतुत्वमनुपलब्धिकारणानुपपत्तेः ॥
गौ. सू. अ. ५ आ.१ सू. ३९ यद्यपि प्रयत्नकार्यान्यत्वमुपलभ्यते तथा ऽपि प्रकृते शब्दे प्रयत्नस्याभिव्यक्तावहेतुत्वं न प्रयत्नतः शब्दमभिव्यनक्ति किं त्वभूतप्रादुर्भावमेव विध कस्माद् अनुपलब्धिकारणानुपलब्धेः यत्र हि सत: पदार्थस्य प्रयत्नोऽभिव्यक्तिहेतुस्तत्र तस्य सतः सलिलादेरनुपलब्धिकारणमस्ति मृदादिव्यवधानं सदपोहमाचरता प्रयत्नेन तदभिव्यक्तिः सम्पद्यते शब्दस्य तु न किं चिदनुपलब्धि. निबन्धनं व्यवधानादि संभवतीति वर्णितमतस्तस्यासत एवात्मलाभनिमित्तम. चारणादिप्रयत्नो न सतो व्यक्तिनिमित्तं तस्मादनित्यः शब्द इति स्थितम् ,
तदेवमनेन चतुर्विंशतिजात्युदाहरणप्रतिसमाधानोपदेशवम॑ना शब्दानित्य. स्वसाधने परकीयमुपालम्भजातमेवंप्रायमखिलमपाकृतमाम्रसेकपितृतर्पणन्यायेन भवति भगवता सूत्रकारेण, इदमपरमिदानीमुपदिश्यते चतुर्विशतावपि जातिषु जातिवादिना प्रयुक्तासु मूलसाधनावादी विस्पष्टानुमानोदन्तपरीक्षणपुरःसरं सत्यमेवोत्तरं यथोपदिष्टमभिदधीत न तु जातिप्रयोगानुकारिदुरुत्तरालापचा
राकरणम