SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ १८८ অঞ্জমা पलेन षटपक्षी प्रवर्तयेत तस्यां हि पस्तुतायामुभयोरपि वादिप्रतिवादिनोरसिद्धिरसद्वादित्वात् , कथं पुनः षट्पक्षी प्रवर्तत इति तत्पथं दर्शयितुमाहप्रतिषेधेऽपि समानो दोषः ॥ गौ. सू. अ. ५ आ. १ मू. ४० स्थापनाहेतुवादिना प्रथमपक्षस्थेन स्थापनाहेतुः प्रयुक्त: अनित्यः शब्दः प्र. यत्नानन्तरीयकत्वादिति, ततोजातिवादी द्वितीयपक्षस्थः प्रयत्नकार्यानेकत्वादिति प्रयत्नानन्तरीकत्वमभिव्यङ्गये ऽपि शब्दे भवतीति हेतोरनेकान्तिकत्वमित्याह, तदधुना तृतीयपक्षस्थः स्थापनाहेतुवादी यदि यथोपदिष्टमावरणानुपलब्धिक्र. ममनुस्मृत्य विशेषमुपदर्शयन्ननैकान्तिकतामुद्धरति ततस्तावत्येव पर्यवस्यति क. थेति चतुर्थादिपक्षावसरविरहान्नावतरत्येव षट्पक्षी, यदि तु तं क्रममपहायैव तृतीयपक्षस्थो ऽसौ वदति हेतोश्चेदनकान्तिकत्वमुद्भावयसि अनैकान्तिकत्वाद साधकः स्यादिति नन्वयं तावकः प्रतिषेधो ऽप्यनैकान्तिक: किं चित्प्रतिषेधति किं चिन्नेति हेतोः साधकत्वं प्रतिषेधति न स्वरूपमिति अत एवेत्थं प्रतिषेधस्यानैकान्तिकता सो ऽपि हि नाभिव्यक्तिपक्षमेव साधयेत्प्रतिपक्षे ऽपि प्रय. नसाफल्योपपत्तेरुभयत्रापि च विशेषहेतोरनपदेशात् , एवमनैकान्तिकत्वमभिः हितवति साधनवादिनि प्रतिषेधवादिनो ऽपि वचनावसर इत्यवतरति षट्पक्षी। स हि चतुर्थपक्षस्थ एवं वदति प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवदोषः । गौ.सु. अ. ५ आ. १ सू. ४१ विविधः प्रतिषेधो विप्रतिषेध इहोच्यते न व्याघातः प्रकृतसङ्गतेरभावात् , यो ऽयं प्रतिषेधे ऽपि समानानैकान्तिकदोष उच्यते स प्रतिषेधप्रतिषेधे ऽपि भवत्प्रयुक्त समानः सोऽपि पूर्ववदनैकान्तिक एवेति, ततः पञ्चमं पक्षमवल. म्ब्य मूलसाधनवादी मतानुज्ञामुद्भावयति सा चप्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानदोषप्रसङ्गो म. तानुज्ञा ॥ गौ सू. अ. ५ आ. १ मू. ४२ प्रतिषेधे ऽपि समानदोष इति समुद्भावितं दोषमनुद्धत्य तं प्रतिषेधं सदोषमभ्युपेत्य मदुक्त प्रतिषेधे विप्रतिषेधे समानदोषप्रसङ्गमापादयतस्ते मतानुज्ञा निग्रहस्थानं भवति, चोरो भवानित्यभियुक्तेन चौर्यमात्मनो निराकरणीयं न तु भवानपि चोर इति परः प्रतिपत्तव्य इति, एवं पञ्चमपक्षस्थे मूलसाधनवादिनि कथितवति परः षष्ठं पक्षमास्थाय पुनरभिधत्ते यदि स्वपक्षदोषानुद्धरणपुरस्सर परपक्षदोषोपादानोपनतमतानुज्ञानिग्रहस्थानपात्रमहमादिश्ये हन्त तर्हि तवापि तदेव निग्रहस्थानमवतरति त्वमप्येवमकार्षीस्तथा हि द्वितीयपक्षम्थेन मया
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy