SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ जातिप्रकरणम् । प्रयत्नकार्यानेकत्वादिति यदनैकान्तिकत्वमुद्भावितं तदनुद्धृत्यैव प्रतिषेधे ऽपि समानो दोष इति मय्येव प्रतीपमापीपदस्तदेवं त्वत्त एव शिक्षित्वा ऽहमपि चतुर्थपक्षस्थस्तथैव त्वयि दोषमर्पितवानिति मम चेन्मतानुज्ञा प्रथमतरं तवासौ भवेदिति तदेतदाहस्वपक्षतल्लक्षणापेक्षोपपत्युपसंहारहेतुनिर्देशे परपक्षदोषाभ्युपगमा समानो दोषः ॥ गौ. सू. अ. ५ आ. १ सू. ४४ स्वपक्षो मूलसाधनवाद्युक्तः प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति, त. लक्षणस्तत्समुत्थानस्तद्विषयः प्रयत्नकार्यानेकत्वादिति प्रतिषेधः, तमपेक्षमाणस्तमनुद्धृत्यानुज्ञाय प्रवृत्तः प्रतिषेधेऽपि समानो दोष इत्युपपद्यमानः परपक्षे अनैकान्तिकत्वदोषोपसंहारस्तस्य च हेतुनिर्देश इत्ययमनैकान्तिकः प्रतिषेध इति, तस्मिन्सति पक्षकथितानकान्तिकत्वदोषाभ्युपगमात्तदनुद्धरणेन तस्यैव प्रतीपदोषोद्भावनात्समानो मतानुज्ञादोष इति षष्ठः पक्षः, सेयं षट्पक्षी तस्यां प्रथमतृतीयपश्चमाः स्थापनाहतुवादिनः पक्षाः, द्वितीयचतुर्थषष्ठाः प्रतिषेधवादिनः, एते च साध्यसाधकतया परीक्ष्यमाणाः पौनरुक्तयमतानुज्ञादिदोषापहतत्वादन्यतरस्यापि वादिनः साध्यसिद्धये न प्रकल्पन्ते, तथा हि चतुर्थषष्ठयोः पक्षयोराविशेषात्पुनरुक्तदोषप्रसङ्गः, चतुर्थे पक्षे परस्य समानदोषत्वमुच्यते षष्ठे ऽपि तथैव समानः, तृतीयपञ्चमयोस्तृतीये पक्षे परोक्तं स. मानदोषत्वमभ्युपगम्यते पञ्चमे ऽपि मतानुज्ञामुद्भावयता तदङ्गीकृतमेव भवति तृतीयचतुर्थयोश्च परोक्तदोषानुद्धरणान्मतानुज्ञेत्येवं षटपक्ष्यामुभयोरसिद्धिः । तस्मात्सदुत्तरैदोषचिकित्सा साधीयसी नासदुत्तरैः षट्पक्षीप्रसङ्गादिति, नन्वसदुत्तरकथने ऽपि कथं षट्पक्ष्यामेव विश्रामः शतपक्षी सहस्रपक्षी वा कथं न प्रवर्तते को ऽत्र नियम इति चेदुच्यते-इयत्येव निवर्त्यते वचनावकाश इति नानन्तपक्षता संभवति, तथा हि-पूर्वोत्तरपक्षवादिनौ भवत एव कोऽत्र विचारः, तत्र स्थापनाहतुवादिना तावत्प्रथमं स्वपक्षसाधने ऽभिहिते दूषणवादिना तत्र दूषणे वर्णिते तृतीये वचसि वर्तमानः साधनवादी सम्यङ्नीत्योपक्र. ममाणस्तद् दूषणमुद्ध शक्नुयान्न वेति तस्यामेव दशायां प्राड्विवाकायते(१) निर्णयः, असदुत्तरोपन्यासे तु तृतीयवचसा तेन कृते दूषणवाद्यपि लब्धावकाश. (१) प्राविवाकायते इति । अर्थिप्रत्यर्थिनौ पृच्छतीतिप्राट् तयोर्वचन विरुद्धमा विरुवं सभ्यस्सहविविनक्तिविवेचयतिवेतिवियाकः प्राट्चासौ विवाश्च प्राइविवाक इति तदुक्तं विवादानुगतं पृष्ट्वा ससभ्यस्तत्प्रयस्मतः । विधारयति येनासो प्राइवि. वास्ततस्मृत इति मिताक्षरा ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy