SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ न्यायमअर्याम् स्तत एव शिक्षित्वा चतुर्थे वचसि वर्तमानस्तत्प्रतीपं योजयति ततः स्थापनाहे. तुवादी प्रतीपयोजनायामफलायां दुरन्तायां समव्ययफलायामशक्यक्रियायां च निरुद्योगः किं चिदभिनवं दूषणमुत्प्रेक्ष्य पञ्चमे वचसि स्थितो मतानुशामाह, ततस्तामपि परपक्षमनतिवर्तमानां पश्यन् प्रतिषेधवादी षष्ठे वचसि स्थित्वा तां तत्पक्षे योजयतीत्येवं वृत्ते दूषणान्तरासंभवात्प्रतोपयोजने च भमरसत्वात्तूष्णीमेवासितमुचितमिति तावत्येव भवति वचनविरतिनं शतसहस्रादिपक्षप्रसङ्गः प्रवर्तत इत्यतः षट्पक्षीमेव प्रदर्शितवानाचार्यः, स चान्तेवासिनं बोधयितुमेवमुपादिक्षदेनेन पथा प्रवर्तत भवानन्येन मा प्रतिष्टेति ।। वाच्यमुत्तरमतो निरवद्यं जातिवादिनमपि प्रति तज्ज्ञैः । कश्मलोत्तरगिरा न तु कार्या पक्षषट कपरिकल्पनगोष्ठी ॥ यादृग्यक्षो बलिरपि तथेत्येवमाधाय बुद्धौ यस्तु ब्रूयात्कलुषमफलस्तस्य शुद्धो ऽपि हेतुः । षटपक्षादिप्रसरणपरिम्लानकान्तिर्न बुद्धिं शक्तः स्वार्थे जनयितुमसावग्रतः प्राश्निकानाम् ।। इतीदं व्याख्यातं निजसरणिसांकर्यरहितं स्वरूपं जातीनां स्फुटमिह चतुर्विशतिविधम् । अमूषां तत्त्वज्ञः परविरचितानां परिहतौ । स्वयं चोपन्यासे न हि सदसि संमुह्यति नरः ।। इति १५ जातिपदार्थः। । निग्रहस्थान प्रकरणम् - - जात्यनन्तरं निग्रहस्थानोद्देशात्तल्लक्षणपतिपादनार्थमाह । विप्रतिपत्तिरपत्तिपतिश्च निग्रहस्थानम् ॥ गौ.सू.अ. ५ आ. १.६० निग्रहः पराजयस्तस्य स्थानमाश्रयः कारणमित्यर्थः, किं च पराजयनि मितं विप्रतिपत्तिरपतिपत्तिश्च विपरीता कुत्सिता विगर्हणीया पतिपत्तिर्विपूति. पत्तिः, साधनाभासे साधनबुद्धिः, दूषणाभासे दूषणबुद्धिः अपतिपत्तिस्त्वारम्भविषये ऽनारम्भः, आरम्भस्य विषयः साधने दूषणं दूषणे चोद्धारः तयोरकर. णमपतिपत्तिः, द्विधा हि वादी पराजीयते यथा कर्तव्यतामनारभमाणो विपरीतं वा पतिपाद्यमानः, अत एव न कर्मकरणयोनिग्रहमादिशन्ति न हि ताभ्यां कि चिदपराद्धं स्वविषये पयुज्यमानयोः सामर्थ्यानपायात् , कर्ता तु प्रमाद्यन्नपयोज्यं पंयुजानः पयोज्यमपयुजानो वा निग्रहमहति, पायेण चातत्ववादिनो निगृह्या भवन्ति, तत्त्ववाद्यपि कदा चन जल्पे वितण्डायां वा सम्यक्साधनमप्यपदिश्य पतिवादिपतिपादितदूषणभासनिराकरणसरणिमनुगुणामपश्यन्निगृह्यत एव
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy