SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ निग्रहस्थानप्रकरणम् । १९१ अत एव भाष्यकृताक्तं तस्ववादिनमतत्त्ववादिनं चाभिप्लवन्ते निग्रहस्थानानीति, असमासकरणमनेकनिग्रहस्थानभेदावरोधार्थम् । अत एवानन्तरमाह तद्विकल्पाज्जातिनिग्रहस्थान बहुत्वम् ॥ गौ.सू. अ. ५ आ. २ सू. ६१ । दिति साधर्म्याभ्यां प्रत्यवस्थानस्य विप्रतिपत्त्यप्रतिपरयोश्च परा मर्शः, नानाकल्पो विकल्पः पूकारभेद इत्यर्थः, साधर्म्य वैधर्म्याभ्यां नपकारस्य बहुत्वाज्जातिबहुत्वम् । प्रत्यवस्था तद् द्वाविंशतिधा विभज्य दर्शयति प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्त रमर्थान्तरं निरर्थकमविज्ञानार्थमपार्थक्रमप्राप्तकालं न्यूनपाधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपां मतानुज्ञा पर्यनु योज्यापेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो हेत्वाभासाच निग्रहस्थानानि गौ. सू, अ. ५ आ. २ सु, १ । अत्राननुभाषणमज्ञानमप्रतिभा विक्षेप: पर्यनुयाभ्योपेक्ष णमित्य प्रतिपस्या संतान शेषाणि विप्रतिपत्त्या, पुनरुक्तमधिकमित्यसमासकरणेन विप्रतिप. स्यैव वा ऽभिमतमसमासक्लिष्टकल्पनया सापि हि कुत्सितैव प्रतिपत्तिर्यत्पुनरुक्तमधिकं वा प्रयुज्यत इति, असङ्कीर्णोदाहरणविवक्षया च द्वाविंशतिभेदसङ्कीर्त नमवान्तरभेदैस्तु जातिवदानन्त्यमेव तेषामिति, कीर्तिराह द्वाविंशतिधा निग्रहस्थानानि विभज्यन्ते तेषां च प्रतिपदमिदानीं विशेषलक्षणानि वर्ण्यन्त इति न मृष्यामहे कुतः - असाधनाङ्गवचनमदोषोद्भावनं द्वयोः । निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते ॥ [ वादिना सिषाधयिषितपक्षसिद्धये साधनमभिधेयं स चेदसाधनाङ्गं ब्रूयानिगृह्यते, प्रतिवादिनाऽपि वाद्युक्ते साधने दूषणमुद्भावनीयं स चेददोषमेव दोषत्वेनोद्भावयेन्निगृह्यते, ते एव द्वयोर्वादिप्रतिवादिनोर्निग्रहस्थाने अतो ऽन्यथा निग्रहकरणमन्याय्यमेव, प्रतिज्ञाहान्यादिषु तत्प्रभेदेषु च प्रतिपदमयुक्ततां दर्श: यिष्यति, कति चिचात्र शिशुप्रलापप्राया निग्रहस्थानानि निर्दिष्टानि, साहंशि शास्त्रे लक्ष्यन्त इति परममप्रतिष्ठानम्, अत्रोच्यते संक्षेपविवक्षया द्वे एव निग्रहस्थाने इति वयमपि किं नोक्तवन्तो विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानमिति एतच्च सामान्यलक्षणमखिलभेदसंग्रहतमं भवति न भवदुक्तम्, तथा हि उत्तराप्रतिभानेन वादिप्रतिवादिनोरन्य
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy