________________
१९२
म्यायमअर्याम्
तरः परराजीयते न वा, न पराजीयते इति इति कथमुच्यते किं मूक इव जित्वा गच्छतु निगृह्यते चेत्किमनेनापराद्धं न साधनाङ्गमुक्तं न दोष उद्भावितः, अथ प्रसज्यप्रतिषेधेनोद्भावनमादौ व्याख्याय पुनरदोषोद्भावनमावृच्या पर्युदासेन वर्यते तर्हि ते एवैते विप्रतिपत्यप्रतिपत्ती उक्त स्थाताम्, दोषानुद्भावनमप्रतिपत्तिः, एवमसाधनाङ्गवचनमपि विकल्पनीयम्, प्रसज्यप्रतिषेधवृत्त्या साधनाङ्गस्यावचनमिति चेत्सेयमप्रतिपत्तिः, अतः शब्दान्तरेणाक्षपादपादेभ्य एव शिक्षित्वा तदेव निग्रहस्थानद्वयमनेन श्लोकेन निबद्धं न पुनरभिनवमल्पमपि किं चिदुत्प्रेक्षितमिति, न च यथासंख्यनियमेन द्वयोद्वै निग्रहस्थाने कल्पनीये अपि तु यथासम्भवमुभयोरपि यथावसरं तत्तन्निग्रहस्थानमादेष्टव्यम्, द्वाविंशतिभेदस्वं च निग्रहस्थानानामसङ्कीर्णे ।दाहरणविविवव दया कथ्यते न नियमायेत्युक्तमेव, परस्परविसदृशं च लक्षणमेषामिदानीमुपदिश्यत एव तत्रैव चायुत्वमेषां बालिशप्रलापकल्पत्वं वा पराक्रियते एवेत्यल मतिप्रसङ्गेन । प्रतिज्ञाहानेर्लक्षणम्
एवं सामान्यलक्षणं विभागं चाभिधाय विशेषलक्षणान्याह - प्रतिदृष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥ गौ. सु. अ. ५ आ. २ सू. २ ।
प्रतिज्ञासिद्धये वादिना साधने ऽभिहिते तत्र प्रतिवादिना च दूषणे उद्भाविते तृतीये वचसि तु वर्तमानो वादी यदि प्रतिदृष्टान्तधर्मं स्वदृष्टान्ते ऽनुजानाति तदस्य प्रतिज्ञा हीयत इति प्रतिज्ञाहा निर्निग्रहस्थानं भवतिः, तद्यथा अनित्यः शब्दः ऐन्द्रियकत्वाद घटवदित्युक्ते पर आह सामान्य मैन्द्रियकमपि नित्यं दृष्टमित्यनैकान्तिको हेतुरिति, तत्र साधनवाद्याह सामान्यमैन्द्रियकं नित्यं तर्हि तथैव घटोsपि नित्यो ऽस्त्विति, अयमस्यैवं वदतो भ्रमः किल नित्यानित्यपक्षवृत्तिरनैकान्तिकतामेष विजद्यादिति, तदेवमस्य ब्रवतः प्रतिज्ञाहानिर्भवति घटस्य हि नित्यत्वे तद्दृष्टान्तबलादेव शब्दो ऽपि नित्यः स्यादिति,
तंत्र कीतिराह प्रतिज्ञैव तावदसाधनाङ्गवचनमिवि तदभिधानं निग्रहस्थानं भवितुमर्हति न तद्धानिः, न च हानिरप्यस्ति यदि नाम घटस्य दृष्टान्तीकृतस्य प्रतिदृष्टान्तधर्मं नित्यत्वमयमभ्युपैति किमियता शब्दानित्यत्वप्रतिज्ञामवजहाति, अपि च हेत्वाभासा अपि निग्रहस्थानवर्गे गणिता एव स चायमनैकान्ति कहेत्वाभासप्रयोगादेव पराजीयते न प्रतिज्ञाहान्येति तस्या विषयान्तरं वक्तव्यम्
"
अत्रोच्यते प्रतिज्ञायास्तावदसाधनाङ्गवचनता नास्तीत्यवयवलक्षणे निर्णी तमेतत्, प्रतिज्ञासिद्ध्यर्थ एव सर्ववादिनां प्रयास: अनिर्दिष्टा च साधयितुमशक्यैवेति न तद्वचनमसाधनाङ्गवचनम्, लौकिकेष्वपि चर्णादानादिविवादपदेषु प्रतिज्ञाहानिमेव मुख्यं पराजयकारणमाहुः,