SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ निग्रहस्थानप्रकरणम् । तदाह नारद: सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता। तद्धानौ हीयते वादी तरस्तामुत्तरो भवेदिति ॥ प्रतिदृष्टान्तधर्म च स्वदृष्टान्ते ऽभ्युपगच्छन्नुत्सृजत्येव प्रतिज्ञाम् , नित्यत्वं हि सामान्यवद् घटस्यापि सहते तदृष्टान्त वलेन च तद्धमै शब्दे सिषाधयिषतीति नूनमिदानी नित्यत्वमेव घटधर्मः शन्दे सिद्धयदिति कथं तदनित्यत्वप्र. तिज्ञा ऽस्य न हीयते, यत्तूक्तं हेत्वभासप्रयोग एव निग्रहनिमित्तं न प्रतिज्ञाहानिरिति स्यादेतदेवं यदि द्वितीये वचसि व्यवस्थितेन प्रतिवादिना व्यभिचारोद्भावनया प्रत्यवस्थितो वादी तावत्येव विरमेत् , स तु तृतीये वचसि वर्तमा. नस्तदुद्धरणबुद्धया तथाविधमभिधत्ते येन प्रतिज्ञा जहाति, अतश्च व्यभिचारपरिहरणलोभाभिहितपतिदृष्टान्तधर्माभ्यनुज्ञावचनोपनततदर्थप्रतिज्ञाहानिनिबन्धन एवास्य निग्रहो युक्तो न हेत्वाभासप्रयोगकृत इति अयमेव मुख्यः पतिज्ञाहानेविषयः। प्रतिज्ञान्तरस्य लक्षणम् - प्रतिज्ञातार्थप्रतिषेधे धर्मे विकल्पात्तदर्थनिर्देशः प्रतिज्ञा. तरम् ॥ गौ. सू. अ. ५आ. २ सू. ३ । पतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतो वादिनः पतिज्ञान्सरं नाम निग्रहस्थानं भवति, अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते पूर्ववत्सामान्येन व्यभिचारोद्भावनया प्रत्यवस्थित आह, सामान्यमैन्द्रियकं यन्नित्यं तद्यक्तं तद्धि सर्वगतम् असर्वगतस्तु शब्द इति पतिज्ञां कुर्वन् प्रतिज्ञान्तरेण निगृहीतो भवति, __“अत्राहनेदमपस्तुतपतिज्ञान्तरकरणम् अपि तु परोद्भावितव्यभिचारनिवारणं विशेषणोपादानमेतत्, एतदुक्तं भवति असर्वगतत्वे सत्यन्द्रियकत्वादनित्यः शब्द इति तदिदमसर्वगतत्वं पतिज्ञासिद्धयर्थमुपात्तं कथं निग्रहस्थानम् , यो हि मीमांसकं पत्यनित्यः शब्दः कृतकत्वादित्युक्तवांस्तेन कृतकत्वं सिद्धमित्युपलब्धे कृतकत्वे स प्रतिज्ञान्तरं कुर्वाणो निगृह्येत, यस्तु पूर्वपतिज्ञामवधीर्य तदनौपयिकमकस्मादेव पतिज्ञान्तरमारभेत तदा उन्मत्त एव भवेत् , न चोन्मत्तपला. पानां शास्त्रे लक्षणकरणं युक्तम् , स्पष्टे निग्रहहेतो हेत्वाभासाभिधाने सम्भवति किमिति पतिज्ञान्तरं निग्रहस्थानमुच्यत इति" । ___ अत्रोच्यते पतिज्ञासिद्धये हेतुदृष्टान्तौ प्रयोलव्यो न पुनः प्रतिज्ञान्तरं कर. णीयमिति स्थितिः, इह च यो हेतुरनेनोपात्तस्तस्मिन्परेणानेकान्तिकीकृते सति न तत्परिहारपकारमनुगुणमयमास्थितवान् अपि त्वसर्वगतत्वप्रतिक्षामन्या. मधिरूढः । . "ननु विशेषणमेतदनैकान्तिकत्वपरिहारार्थ न पतिज्ञान्तरमित्युक्तम्" ना. २५
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy