SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ १९४ न्यायमअर्याम् सिद्धत्वात् सिद्धं हि विशेषणं भवति नित्यत्ववादिनं च प्रति शब्दस्या सर्वगतत्ववादिनं च प्रतिशब्दस्यासर्वगतत्वमसिद्धम्, साध्यते चेत्तर्हि प्रतिज्ञान्तरमे. वेदं त्वाद्यवयववैलक्षण्यात् प्रतिज्ञालक्षणस्य च साध्यनिर्देशस्योपपत्तेः, अनै कान्तिकत्रये हि हेतुविशेषणं सिद्धं च वाच्यं न तु धर्मिविशेषणं साध्यं चेति, अन्यतरासिद्धे तु हेत्वाभासे तत्समर्थनं पुक्रमानुरूपमेवेति न पूतिज्ञान्तरं निग्रहस्थानं भवति, इह तु श्रनैकान्तिकत्वपरिहाराय यतमानो मार्गमनुगुणमपश्यन् स्खलित इव निगृह्यते, न च हेतूदाहरणादिप्रयोग निपुणमतेरपि भ्रमादेवम्विधमभिधानं न सम्भवति, न च प्रतिज्ञामात्रेण सिद्धिमिच्छन्नेवं ब्रवीति अपि तु व्यभिचारं परिजिहीर्षन्निति, न चायमुन्मालाप एव प्रस्तुतानुगुण्यबुद्ध्या प्रयोगात्, अपि चानित्यः शब्दश्चाक्षुषत्वादित्युभयासिद्धो नामहेत्वाभासो भवद्भिरपि शास्त्रे लक्षित एव स उन्मशवलापो न भवति यथो दाहृतं प्रतिज्ञान्तरमुन्मत्तप्रलाप इत्यपूर्व एष भिक्षोः स्वदर्शनरागः परदर्शन. द्वेषो वा, को हि नाम शिशुरपि शब्दे चाक्षुषतां ब्रूयात् इदं सम्भवत्येवाभिधानं केवलं हेतुविशेषणे सिद्धे च वक्तव्ये भ्रमाद्धर्मिविशेषणं साध्यं वा ऽयमुक्तवानिति, निमित्तान्तरमिदमस्य निग्रहे निरूपितं द्वितीय एव तु वचसि कथाfaraौ हेत्वाभासप्रयोगादेव निग्रहमाप्नुयादिति प्रतिज्ञाहानिप्रस्ताव एवोक्तम् । प्रतिज्ञाविरोधस्य लक्षणम् - " प्रतिज्ञाहेत्वाविरोधः प्रतिज्ञाविरोधः । गौ.मू.अ. ५आ. २मू. ४ । यत्र प्रतिज्ञा हेतुना विरुध्यते हेतुर्वा प्रतिज्ञया स प्रतिज्ञाविरोधो नाम निग्रहस्थानं भवति, गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धेरिति हेतु:, सोऽयं प्रतिज्ञाहेत्वोर्विरोधो यदि गुणव्यतिरिक्तं द्रव्यं न तर्हि रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धिरथ रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धिर्न तर्हि गुणव्यतिरिक्तं द्रव्यं रूपादिभिश्चार्थान्तरस्यानुपलब्धिरिति व्याहतम् । "अत्राह नेदं प्रतिज्ञाहेत्वोर्विरोधोदाहरणं भवितुमर्हति हेतोरसम्भवात्, सम्भवे हि हेतुः प्रतिज्ञां विरुणद्धि तया वा विरुध्यते, इह तूपलब्धिलक्षणप्राप्तस्यानुपलब्धिर्न समस्त्येव रूपादिभ्योऽर्थान्तरस्य पृथक्त्वेनोपलब्धियोग्यत्वानुपपत्तेः, सम्भवन्नपि चैवम्विधे विषये प्रतिज्ञाविरोधे हेतुर्न द्वयीं दोषजातिम. तिवर्तते विरुद्धत्वमसिद्धत्वं वा, गुणव्यतिरिक्तद्रव्यवादिनो हि भेदेनाग्रहणग· तार्थत्वान्न पृथग्वक्तव्यमिदं निग्रहस्थानम्, यदन्यदन्यैरुदाहरणमभाणि नित्यः शब्द: सर्वस्यानित्यत्वादिति तद्ध्यसाधु, वैधर्म्यदृष्टान्तस्यानेन प्रकारेण कुशि क्षितैरभिधानात् तथा हि सर्वशब्दोऽत्र सावयववचन इति निरवयवत्वं हेतुर्विवक्षितो नित्यः शब्दो निरवयवत्वात्सावयवस्यानित्यत्वादिति सो ऽयमपिशिक्षित वैधर्म्यदृष्टान्तप्रदर्शनता प्रक्रमैर्विपर्ययेण वैधर्म्यदृष्टान्त एव कथितः स र्वस्यानित्यात्वादिति, तदुक्तं स हि दृष्टान्त एवोक्तो वैधर्म्येण सुशिक्षितैरिति, "
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy