________________
१९५
निग्रहस्थानप्रकरणम् । तस्मान्नेदमपि प्रतिज्ञाहेतुविरोधोदाहरणमिति"
अत्रोच्यते यदुक्तं हेतोरसंभवान्नेदं निग्रहस्थानं तदचारु-पञ्चम्यन्तनिर्दि ष्टस्य हेतोः प्रदर्शितत्वात् , निरवद्यहेत्वभावात्तु यदि तदसंभव उच्यते तर्हि हे. त्वाभासव्याकरणमप्यकरणीयं भवेत् , पुरुषबुद्धिप्रमादनिबन्धनहेत्वाभासप्रयो. गवत्त तथाविधमप्यभिधानं संभवत्येव ।
यत्पुनरभ्यधायि "संभवन्नपि हेतुरयमसिद्धविरुद्धयोरन्यतरोभवेन्न दूषणान्तर मि"ति। तत्र ब्रूमः सत्यमेतत् किंतु हेतुस्वरूपनिरूपणावसरे सपदि तद्गतदोषादोषदर्शनाद्विरुद्धता तस्याभिधीयते, यथा भवद्भिनित्यः शब्दः कृतकत्वादिति विरुद्ध. हेतोर्वर्ण्यते क्वचित्सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसंभवेऽपि तदवधीरणया विरुद्धत्वमेव दर्शितम् , यथा वा हेत्वाभासलक्षणे कथितमस्माभिः अनित्यः शब्दश्चाक्षुषत्वादित्यस्यानकान्तिकत्वदोषे सत्यपि प्रथमतरमसिद्धतैव हृदय. पथमवतरति तेनासिद्धोऽयमुच्यते न सव्यभिचार इति, एवमिहापि हेतुगुणदोषविचारे क्रियमाणे विरुद्धादिहेत्वाभासतैव नास्य कथ्यते, यदा तु परार्थानुमान वाक्यस्य पञ्चावयवस्य परमतेन वा व्यवयवस्य परस्परान्वितपदार्थसमुदायात्मा वाक्यार्थश्चिन्त्यते तत्रेतरेतरव्याहतार्थवादिनोः प्रतिज्ञाहेतुपदयोरसंसर्गात्तद्विरोध. एव झटिति मनसि विपरिवतते इति स एव निग्रहनिमितं भवितुमर्हति, यत इतरेतरविरोधिनमनन्वितमर्थमभिवदति वाक्येऽप्रतिपत्तिविप्रतिपत्तिर्वा भवेदित्य द एव निग्रहस्थानम् , अपि च साध्यविपर्ययसाधक एव विरुद्धहेतुरुच्यते यः प्रतिज्ञामेव बाधते इह तु प्रतिज्ञया हेतुर्बाध्यते प्रतिज्ञा वा हेतुनेति विकल्प्यमानत्वान्निग्रहस्थानान्तरमेवेदम् , इत्थमस्यैवोदाहरणस्योपपत्तेरुदाहणान्तरनिरूपणं वृथाटाट्यैव, भाट्टैस्तुभवदीयं निरालम्बनसाधनं प्रतिज्ञाविरोधोदाहरणं वर्णितम् , निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वादिति यतः प्रत्ययत्वहेतुग्राहकज्ञानस्य सा. लम्बनत्वे तेनैव प्रतिज्ञा विरुध्यते वन्निरालम्बनत्वे तु हेत्वभाव एव स्यादिति , सदुक्तम्
विस्पष्टश्चाक्षपादोक्तो विरोधो हेतुसाध्ययोः ।
यमदृष्ट्वा परैरुक्तमदूषणमिदं किल ।। इति । तत्सर्वथा सुलभोदाहरणमिदं प्रतिज्ञाहेतुविरोधाख्यं निग्रहस्थानमिदं स्थितम्।
प्रतिज्ञासंन्यासस्य लक्षणम्पक्षप्रतिषेधे प्रतिज्ञार्यापनयनं प्रतिज्ञासन्न्यासः ।।
. गौ. अ. ५ आ. २ सू. २५ । पक्षसाधने परेण दूषिते तदुद्धरणाशच्या प्रतिज्ञामेव निन्हुवानस्य प्रतिज्ञासन्न्यासो नाम निग्रहस्थानं भवति, अनित्यः शब्द ऐन्द्रियकत्वादियुक्त तनै सामान्येनानैकान्तिकतायामुट्टङ्कितायां प्रतिब्रवीति क एवमाह नित्यः शब्द .