SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ · न्यायमञ्जयाम् सो ऽयमेवं ब्रवन् प्रतिज्ञासन्न्यासात्पराजीयते । ..."अत्राह अतिस्थूलः खल्वयं प्रमादः कोहि नाम प्रतिवादिप्राश्निकसन्निधाने प्रतिज्ञां कृत्वा तदैव तेषामेवाभ्रष्टसंस्काराणां पुरतोऽपस्मारकाद्यनुपप्लुतमतिस्तामेव निन्हुवीत, अपि च द्यूतपराजितपणरहित एव कितववदासीनः प्रति. ज्ञामजहदापि हेतावनैकान्तिके किमसौ न निगृह्यते, न हि प्रतिज्ञायास्त्यागात्यागौ तदीयो निग्रहानिग्रहयोः प्रयोजकावपि तु हेतुगुणदोषावेव, स चायं साध. नव्यभिचारादेवासिद्धपक्षः पराजीयत इत्यलं सन्यासेनेति" - अत्रोच्यते परोद्भावितहत्वनैकान्तिकत्वदूषणोद्धरणरणरणकतरलितमतेर्भवेदप्ययं प्रमादः, एवं ह्यसौ वदति न मयोक्तं संयोगवियोगव्यङ्गयः शब्दो न भ. वति न त्वनित्य इति, अयमाशयोऽस्यैवं वदतः किल संयोगविभागानभिव्यङ्गच. स्वे मया पक्षीकृते सामान्येन व्यभिचारो न भविष्यतीति तदपि हि तादृशमेव स्वाश्रयव्यङ्गयत्वादिति मुह्यतो नातिस्थूलममुमीदृशं प्रमादं प्रतिपन्नस्य भवत्येव निग्रहः, अप्रमादिनोस्तु निग्रहो नाम नास्त्येव कश्चिदिह लोके परलोके वा, यत्तु तदीययोः प्रतिज्ञात्यागात्यागयोरप्रयोजकत्वादनकान्तिकत्वेनैवासौ निगृह्यते स्या दिति, तदेवं यदि व्यभिचारोद्भावनया समनन्तरमसौ तूष्णीमेवासीत तथाविधं तु ब्रुवाणस्तस्यैव पराजयहेतोः सन्निकृष्टत्वात्तैरेव निगृहीतो भवति नानैकान्तिक. प्रयोगेणेति। हेत्वन्तरस्य लक्षणम् - अविशेषोके हेतौ प्रतिषिद्धं विशेषमिच्छतो हेत्वन्तरम् ॥ अ. ५ आ. २ सू. ६। अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिधतो हेत्वन्तरं नाम निप्रहस्थानं भवति, यथा सांख्यस्येत्थं वदतः एकप्रकृतीदं व्यक्तं परिमाणाद् घटादिवद्विविधं च परिमाणं विकारेषु दृष्टमियत्तालक्षणमङ्करादेः फलान्तरस्य चतुरश्रिता च पटादेः मृत्पूर्वकस्य, तदेतत्परिमितं निराकारजातमेकप्रकृतिकं दृष्टमित्यतः सर्वमिदमेकप्रकृति भवितुमर्हति, या च सैका प्रकृतिस्तत्प्रधानमिति, अ. स्य हेतोयभिचारो नानाप्रकृतीनामपि परिमाणदर्शनादिति, तत्परिजिहीर्षया विशेषणमाह समन्वयादिति, सुखदुःखमोहसमन्वितं हि सर्व व्यक्तं परमितं दृश्यत इति, तस्य प्रकृत्यन्तररूपसमन्वयाभावादेकप्रकृतित्वमिति, तदिदं त्व. न्तरं निग्रहस्थानं प्रागुक्तस्य विशेषस्य हेतोः स्वयमेवाहेतुत्वमर्षणादिति । __ "अत्राह किमयं दग्धो दह्यते मृतो वा मार्यते अनेकान्तिकहेतूपन्यासेनैव खल्वयं तपस्वी निगृहीतो ऽसाधनाङ्गवचनादिति किं हेत्वन्तराख्यनिग्रहस्थाना. न्सरोदीरणेनेति" अत्रोच्यते युक्तमेव तद् द्वितीये वचसि कथासमाप्तौ यथा तु भवामाह,
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy