________________
निग्रहस्थानमकरणम् |
१९७
यदा तु व्यभिचारनिराकरणाय विशेषणमपरमधिकमधुना ऽभिधातुं प्रवृत्तस्तदा तदुपादानादेव निगृह्यत इति पिष्टपेषणं संप्रत्येवायमिष्यते, पुरुषशक्तिपरीक्षाम च जपे निग्रहस्थानमिदं वादे तु विशुद्धाशयतया वस्तुनि परीच्यमाणे विशेषणान्तरोपादाने ऽपि तद्विचारः प्रस्तोतव्यो न निग्रहः कार्य इत्यभियुक्ताः । अर्थान्तरस्य लक्षणम् -
प्रकृतादर्थादमति संबद्ध मर्थान्तरम् ॥ अ. ५ आ. २ सू. ७ । प्रकृतादर्थादर्थान्तरं तदनौपयिकमभिधतो ऽर्थान्तरं नाम विग्रहस्थानं भवति, यथा कश्चिद्वैयाकरणविट: स्फोटात्मानं शब्द चेतसि निधाय तन्नित्यत्वसिद्धये नित्यः शब्दो निरवयवत्वादित्यभिधित्सुरेव दुरितकर्मादिभिरनैकान्तितामाशङ्कमानो ऽर्थान्तरं नाम निग्रहस्थानं जिगमिषुस्तत्रैव वाक्यशेषच्छाययोत्तिष्ठति नित्यः शब्दो निरवयवत्वादिति वयं पाणिनीयाः प्रपन्ना इति ये भगवतः पाणिनेः छात्राः, कः पुनर्भगवान्पाणिनिरिति ?
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तमाचार्यो नः स पाणिनिः ॥ कः पुनर्महेश्वरो यतोऽक्षरसमाम्नायमधिजगाम पाणिनिरिति ? अस्त्युद्भटजटाजूटकोटिप्रथितचन्द्रमाः । विश्वस्थितिलयोत्पादहेतुरेको महेश्वरः ॥
अपि च
अचिन्त्यवेशाभरणस्य तत्त्वतो यदृच्छया यस्य निशासु ताण्डवम् । स भस्मभक्तीनि बिभर्ति मौलिना कृतान्जलि: पादरजांसि वासवः ॥ कीदृशं पुनस्ताण्डवं तनोति खण्डपरशुरिति ?
इत्थंचारी क्रमो यस्मिन्नित्थं च करवर्तनाः 1
इत्थं यत्र घटोच्छेदा दात्रपादास्तथेदृशाः ॥
इत्येकैकमुपदेशयन्नुत्थाय नृत्यति, तदेतदर्थान्तरं निग्रहस्थानमसाधनाङ्गवचनमिति, कीर्तिनाऽप्यनुमोदितम्, द्वयोरपि च वादिप्रतिवादिनोः प्रकृताननुगुणमभिदधतोर्भवत्यदो निप्रहस्थानम यथाक्रममेकस्य साधनमनवद्यमपश्यतो द्वितीयस्य दूषणमिति ।
निरर्थकस्य लक्षणम् –
वर्णक्रमनिर्देशवनिरर्थकम् ॥ अ. ५ आ. २ सू. ८ । श्रभिधेयरहितवर्णानुपूर्वी प्रयोगमात्रं निरर्थकं नाम निग्रहस्थानं भवति, अ नित्यः शब्दः कचटपानां गजडदबत्वाद् घझढधभवदित्येवंप्रकारम्, इदमपि वादिप्रतिवादिनोः प्रकृताननुगुणमभिदधतार्भवत्यदो निग्रहस्थानम्, यथाक्रमं साधनं दूषणं च यथोचितमभिधातुमजानतोः पूर्ववदुभयोरपि निग्रहस्थानम् ।
"अत्राह सो ऽयमुन्मत्तप्रलाप एव शास्त्रे लक्षयितुमुपक्रान्तो न ह्यनुन्मत्ता