________________
१९८
न्यायमञ्जर्याम्
नामीदृश्यक्षराणि मुखान्निर्गच्छन्त ईदृशां च निर्देशे कपोलवादित्रकक्ष्याभिताडनादीन्यपि कामं शास्त्रे निर्दिश्यन्ताम् अपि च वर्णक्रमनिर्देशवदिति मतुपा निर्देश एष सूत्रे वदिति वतिप्रयोगो वा, मतुप्पक्षे सर्व वर्णक्रमनिर्देशयुक्तं निग्रहस्थानं भवेदिति हस्त संज्ञादिभिरिदानीमुद्माहणिकाः प्रस्तूयेरन्, अथानर्थकक्रमनिर्देशयुक्तमिति व्याख्यायते तथाऽपि नियमानुपपत्तिः, न ह्यर्थरहितवर्णोच्चारणमेव प्रकृतानुपयोगान्निरर्थकमेव वर्णक्रमनिर्देशस्यापि च क्व चित्प्रकरणे सार्थकता दृश्यत एव प्रत्याहारवत्, वतिपक्षे तु भवति दिक् प्रदर्शनमेतत्किं त्वर्थान्तरेणैव गतार्थत्वात्पृथङ न वक्तव्यम्”
,
"
त्रय मतुपा वतिना वाभिधेयशून्यत्वमात्रमत्र विवक्षितम् अभिधेय - शून्यं वचो निरर्थकमित्युक्तमिति भवति, एष एव चार्थान्तरादस्य विशेषः तत्राभिधेयस्य भावे ऽपि प्रकृतानुपयोग इह त्वभिधेयमेव नास्तीति यत्र के चित्प्रकरणवशेन वर्णक्रमनिर्देशस्यापि सार्थकता तदिहोदाहरणम्, उदाहरणं यदि स्फुटं पृच्छसि न कुप्यसि चेत्तद्भवदीयं सर्वमेव वचनमिहोदाहरणं सौगतदर्शने शब्दानामर्थासंस्पर्शित्वात् स्वलक्षणे तेषामप्रवृत्तेः अपोहस्य चातितुच्छत्वात् सर्व तदभिधानं निरर्थकम् अत एव चोन्मत्तप्रलापतः शाक्यभिक्षवो ऽपि परिशुद्धबोधिनः परलोकयाथार्थ्यदर्शिनः शौचाचारव्यवहारेष्ववाद्या महान्तो वि द्वांसः काममर्थशून्यमपि कथयन्तो नान्मत्ता भवितुमर्हन्ति, एवमन्यस्यापि प्र. ज्ञाप्रमादात्कचटतपादि व्याहरतो नोन्मत्तता भविष्यति, यच्चोक्तमीदृशां गणने का परिनिष्ठेति तत्परिहृतमसकृदसङ्कीर्णोदाहरणविवक्षया द्वाविंशतिभेदत्वमाश्रितमिति, कपोलवदनादीनि पुनरकथास्वभावत्वादचिन्त्यान्येव यस्य चास्मिन्कथाप्रसङ्गे गण्डवादित्रादि चेतसि परिस्फुरति तस्यान्यदतिजघन्यमपि हृदयमवतरेदित्यलमसंबद्धगोष्ठयेति ॥ अविज्ञातार्थस्य
"
लक्षणम् --
पर्षत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥
EXPLOD
अ. ५ आ. २, ९ ।
यत्साधनवाक्यं दूषणवाक्यं वा त्रिरभिहितं पर्षदा प्रतिवादिना च न विज्ञायष्टिशब्दप्रयोगमिति तीव्रमुच्चारितमित्येवंप्रकारमविज्ञातार्थ नाम निग्रहस्थानं भवति असामर्थ्यसंवरणाय च धूतैरिदमा श्रीयते ।
"अत्राह अर्थासंप्रत्ययस्य समानत्वात्को ऽस्य निरर्थकाद्भेदः, अथ प्रकृतोपयोगयोग्यमर्थमसौ वदति तदा पर्षत्प्रतिवादिनोर मेधाविता कामं भवेन्न तु विदुषो वक्तुं विवदतः पराजयो भवितुमर्हति, किंकृतश्चैष त्रिरुच्चारणनियमः किं राजाज्ञया उत वाक्येनेति न विद्मः"
अत्रोच्यते निरर्थके सर्वेण सर्वमर्थशून्यता इह तु भवन्नर्थों नावगम्यते द्रुतोश्चारणादिव्यतिकरवशादिति कथमविशेषः, तत्र च कल्प्यते नूनमसामर्थ्य