Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 595
________________ १८० न्यायमञ्जाम् वाद्याह अनित्य इत्युत्पत्तिधर्मक उच्यते यश्चोत्पत्तिधर्मकः तस्योत्पत्तेः पूर्वमनुत्पत्त्या भवितव्यमनुत्पन्ने च शब्दाख्ये धमिणि प्रयत्नानन्तरीयकत्वं धर्मः क वर्ततामलब्धपक्षवृत्तेश्च कथमनित्यत्वं साधयत्वसिद्धे चानित्यत्वे शब्दस्य बलानित्यत्वमेव भवति कारणाभावादित्यनित्यत्वसिद्धिकारणस्य प्रयत्नानन्तरीयकस्वस्याभावादित्यर्थः, तथा च शब्दोत्पादककारणाभावादनुत्पन्ने शब्दे निराश्रयो हेतुरिति । अस्योत्तरम्तथाभावात्पन्नस्य कारणोपपत्तेने कारणप्रतिषेधः ॥ गौ. अ. ५ आ. १ सू. १३ । शब्दाख्यधर्मिणः सिद्धस्य सतो नित्यत्वमनित्यत्वं वा विचार्यते तदसिद्धी हि नित्यत्वमपि कस्य भवानभिदधीत, उत्पन्नस्य चास्य तथाभावो भवति नानु. त्पन्नस्य, उत्पन्नः खल्वयं शब्द इति भवति नानुत्पन्नः, प्रागुत्पत्तेरलब्धात्मनः किमुच्यते, लब्धस्वरूपस्य पुनरनित्यत्वकारणप्रयत्नानन्तरीयकत्वसद्भावादयुक्त एवायं प्रतिषेधः । संशयसमस्य लक्षणम्नित्यानित्यत्वसाधासंशयसमः ॥ गौ. अ. ५ आ. १सू.१४ । नित्यानित्यसाधोपन्यासेन संशयापादनप्रवणं प्रत्यवस्थानं संशयसमः प्रतिषेधः, अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यस्मिन्नेव हेतौ अस्ति श. ब्दस्यानित्यत्वसाधम्य प्रयत्नानन्तरीयकत्वमस्ति च नित्येन सामान्येन साधhमैन्द्रियकत्वमतः किमनित्यसाधर्म्यात्प्रयत्नानन्तरीयकत्वादनित्यः शब्द उत नित्यसाधादैन्द्रियकत्वान्नित्य इति संशय एवं परः प्रत्यवतिष्ठते, न च साध>समप्रयोग एवायमाशङ्कनीयः संशयापादनप्रवणत्वादस्येति । अस्योत्तरम्साधासंशये न संशयो वैधादुभयथा वा संशये ऽत्यन्त. संशयो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ॥ गौ. अ. ५ आ. १ मू. १५।। स्थाणुर्वा पुरुषो वेति स्थाणुपुरुषयोश्च साधादूर्ध्वत्वादेः संशयो भवति म तु शिरःपाण्यादिवैधात्प्रत्युत ततो ऽसौ निवर्तते यदि पुनरुभयथापि साधादिव वैधादपि संशयः स्यात्तथा सत्यनन्तसंशयः प्राप्नोति, इह च विशेषदर्शनस्थानीयमनित्यतासाधनं शब्दे प्रयत्नानन्तरीयकत्वमस्तीति नित्यत्वं सामान्यगतं संशयकारणत्वमिति नाभ्युपगम्यते तस्मादप्रतिषेधो ऽयं नित्यसा. मान्यसाधयनिबन्धनसंशयापादनरूपः ।

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656