Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 610
________________ १९५ निग्रहस्थानप्रकरणम् । तस्मान्नेदमपि प्रतिज्ञाहेतुविरोधोदाहरणमिति" अत्रोच्यते यदुक्तं हेतोरसंभवान्नेदं निग्रहस्थानं तदचारु-पञ्चम्यन्तनिर्दि ष्टस्य हेतोः प्रदर्शितत्वात् , निरवद्यहेत्वभावात्तु यदि तदसंभव उच्यते तर्हि हे. त्वाभासव्याकरणमप्यकरणीयं भवेत् , पुरुषबुद्धिप्रमादनिबन्धनहेत्वाभासप्रयो. गवत्त तथाविधमप्यभिधानं संभवत्येव । यत्पुनरभ्यधायि "संभवन्नपि हेतुरयमसिद्धविरुद्धयोरन्यतरोभवेन्न दूषणान्तर मि"ति। तत्र ब्रूमः सत्यमेतत् किंतु हेतुस्वरूपनिरूपणावसरे सपदि तद्गतदोषादोषदर्शनाद्विरुद्धता तस्याभिधीयते, यथा भवद्भिनित्यः शब्दः कृतकत्वादिति विरुद्ध. हेतोर्वर्ण्यते क्वचित्सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसंभवेऽपि तदवधीरणया विरुद्धत्वमेव दर्शितम् , यथा वा हेत्वाभासलक्षणे कथितमस्माभिः अनित्यः शब्दश्चाक्षुषत्वादित्यस्यानकान्तिकत्वदोषे सत्यपि प्रथमतरमसिद्धतैव हृदय. पथमवतरति तेनासिद्धोऽयमुच्यते न सव्यभिचार इति, एवमिहापि हेतुगुणदोषविचारे क्रियमाणे विरुद्धादिहेत्वाभासतैव नास्य कथ्यते, यदा तु परार्थानुमान वाक्यस्य पञ्चावयवस्य परमतेन वा व्यवयवस्य परस्परान्वितपदार्थसमुदायात्मा वाक्यार्थश्चिन्त्यते तत्रेतरेतरव्याहतार्थवादिनोः प्रतिज्ञाहेतुपदयोरसंसर्गात्तद्विरोध. एव झटिति मनसि विपरिवतते इति स एव निग्रहनिमितं भवितुमर्हति, यत इतरेतरविरोधिनमनन्वितमर्थमभिवदति वाक्येऽप्रतिपत्तिविप्रतिपत्तिर्वा भवेदित्य द एव निग्रहस्थानम् , अपि च साध्यविपर्ययसाधक एव विरुद्धहेतुरुच्यते यः प्रतिज्ञामेव बाधते इह तु प्रतिज्ञया हेतुर्बाध्यते प्रतिज्ञा वा हेतुनेति विकल्प्यमानत्वान्निग्रहस्थानान्तरमेवेदम् , इत्थमस्यैवोदाहरणस्योपपत्तेरुदाहणान्तरनिरूपणं वृथाटाट्यैव, भाट्टैस्तुभवदीयं निरालम्बनसाधनं प्रतिज्ञाविरोधोदाहरणं वर्णितम् , निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वादिति यतः प्रत्ययत्वहेतुग्राहकज्ञानस्य सा. लम्बनत्वे तेनैव प्रतिज्ञा विरुध्यते वन्निरालम्बनत्वे तु हेत्वभाव एव स्यादिति , सदुक्तम् विस्पष्टश्चाक्षपादोक्तो विरोधो हेतुसाध्ययोः । यमदृष्ट्वा परैरुक्तमदूषणमिदं किल ।। इति । तत्सर्वथा सुलभोदाहरणमिदं प्रतिज्ञाहेतुविरोधाख्यं निग्रहस्थानमिदं स्थितम्। प्रतिज्ञासंन्यासस्य लक्षणम्पक्षप्रतिषेधे प्रतिज्ञार्यापनयनं प्रतिज्ञासन्न्यासः ।। . गौ. अ. ५ आ. २ सू. २५ । पक्षसाधने परेण दूषिते तदुद्धरणाशच्या प्रतिज्ञामेव निन्हुवानस्य प्रतिज्ञासन्न्यासो नाम निग्रहस्थानं भवति, अनित्यः शब्द ऐन्द्रियकत्वादियुक्त तनै सामान्येनानैकान्तिकतायामुट्टङ्कितायां प्रतिब्रवीति क एवमाह नित्यः शब्द .

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656