Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 600
________________ जातिप्रकरणम् । १८५ यदुक्तमावरणामुपलम्भादसत्याश्चानुपलम्भादसल्यावरणे प्रागुवारमादसन्ने. व शब्दः प्रयलेनामिनिर्वर्त्यत इति तदयुक्तमावरणानुपलब्धेरप्यनुलम्भाचस्या शानुपलम्भोदभावः अनुपलब्धेरभावादुपलब्धिर्भवति प्रतिषेधद्वयेन विधेरेव प्रतीतेः, आवरणोपलब्धेश्चावरणसत्ता सिध्यतीति प्रकृतमेव शब्दस्याग्रहणं नासस्वकृतमित्यभिव्य अकत्वकृतमेवास्य प्रयत्नादि कारणमिति । अस्योत्तरम्--- अनुपलम्भात्म(क)त्वादनुपलब्धेरहेतुः॥ गौ. सू. अ. ५ आ. १सू ३१ आवरणानुपलब्धि स्स्यनुपलब्धेरिति योऽयं हेतुरुक्तः स न हेतुः अनुप. लम्भस्वभावत्वादनुपलब्धेरुपलम्भप्रतिषेधार्थकत्वादित्यर्थः, अस्त्वित्वनास्तित्वे हि भावानामुपलम्भानुपलम्माभ्यामवस्थाप्यते यदुपलभ्यते तदस्ति शशवद् यन्नोपलभ्यते तन्नास्ति तद्विषाणवत् , नोपलभ्यते च शब्दस्यावरणं मूलोदका. देरिव मृत्तिकेत्यनुपलम्भानास्तीति गम्यते, अनुपलम्भो ह्ययमावरणविषयो नानुपलब्धिविषयः स आवरणस्यैव भावं गमयति नानुपलब्धेरित्यनुपलब्धेभो. वादावरणमेव नास्तीति । ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥ गौ. सू. अ. ५ आ. १ मू. ३२ । ज्ञानविकल्पाः प्रतीतिप्रकारास्तेषां भावाभावौ प्राणिसंवेद्यौ भवतः, अस्ति मे ज्ञानं नास्ति मे ज्ञानमित्येवं सर्वः प्रत्यक्षानुमानागमज्ञानानि प्रमाणफलानि स्मरणसंशयादिज्ञानानि च प्रमाणफलान्यनुभवतीति, सा चेयमावरणानुपल. ब्धिरुपलब्धिवदध्यात्म संवेद्यते नोपलभे शब्दस्यावरणं मृदमिव मूलोदकादे. रिति, तदेवं बाह्यपदार्थभावाभाववदान्तरज्ञानभावाभावयोरपि प्रत्यक्षत्वादपर्य: नुयोगोऽयमनुपलब्धेरनुपलम्भादावरणमस्ति शब्दस्येति तस्मात्प्रामुधारणादस. नेव शब्द इति सिद्धम् । . अनित्यसमस्य लक्षणम् --- साधात्तुल्यधर्मोपपर्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः॥ गौ. सू. अ. ५ आ. १ मृ ३३।। सर्वभावानित्यत्वप्रसङ्गेन प्रत्यवस्थानमनित्यसमः प्रतिषेधः, अनित्येन घटे. न साधर्म्यमस्ति शब्दस्येति तस्यानित्यत्वमुच्यते तर्हि सर्वभावानामपि घटेन किमपि साधर्म्यमस्तीति सर्व एवानित्याः स्युः, अविशेषसमैवेयं जातिरिति चेत्, तत्र हि सत्तायोगात्सर्वभावानामविशेष आपादितः इह तु घटसाधादेवानित्यत्वमापादितम् इति उद्भावनभङ्गिभेदाच्च जातिनानात्वमित्यसकृदुक्तम् ।

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656