Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
निग्रहस्थानप्रकरणम् ।
१९१
अत एव भाष्यकृताक्तं तस्ववादिनमतत्त्ववादिनं चाभिप्लवन्ते निग्रहस्थानानीति, असमासकरणमनेकनिग्रहस्थानभेदावरोधार्थम् ।
अत एवानन्तरमाह
तद्विकल्पाज्जातिनिग्रहस्थान बहुत्वम् ॥ गौ.सू. अ. ५ आ. २ सू. ६१ । दिति साधर्म्याभ्यां प्रत्यवस्थानस्य विप्रतिपत्त्यप्रतिपरयोश्च परा मर्शः, नानाकल्पो विकल्पः पूकारभेद इत्यर्थः, साधर्म्य वैधर्म्याभ्यां नपकारस्य बहुत्वाज्जातिबहुत्वम् ।
प्रत्यवस्था
तद् द्वाविंशतिधा विभज्य दर्शयति
प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्त रमर्थान्तरं निरर्थकमविज्ञानार्थमपार्थक्रमप्राप्तकालं न्यूनपाधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपां मतानुज्ञा पर्यनु योज्यापेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो हेत्वाभासाच निग्रहस्थानानि गौ. सू, अ. ५ आ. २ सु, १ ।
अत्राननुभाषणमज्ञानमप्रतिभा विक्षेप: पर्यनुयाभ्योपेक्ष णमित्य प्रतिपस्या संतान शेषाणि विप्रतिपत्त्या, पुनरुक्तमधिकमित्यसमासकरणेन विप्रतिप. स्यैव वा ऽभिमतमसमासक्लिष्टकल्पनया सापि हि कुत्सितैव प्रतिपत्तिर्यत्पुनरुक्तमधिकं वा प्रयुज्यत इति, असङ्कीर्णोदाहरणविवक्षया च द्वाविंशतिभेदसङ्कीर्त नमवान्तरभेदैस्तु जातिवदानन्त्यमेव तेषामिति,
कीर्तिराह द्वाविंशतिधा निग्रहस्थानानि विभज्यन्ते तेषां च प्रतिपदमिदानीं विशेषलक्षणानि वर्ण्यन्त इति न मृष्यामहे कुतः - असाधनाङ्गवचनमदोषोद्भावनं द्वयोः ।
निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते ॥ [
वादिना सिषाधयिषितपक्षसिद्धये साधनमभिधेयं स चेदसाधनाङ्गं ब्रूयानिगृह्यते, प्रतिवादिनाऽपि वाद्युक्ते साधने दूषणमुद्भावनीयं स चेददोषमेव दोषत्वेनोद्भावयेन्निगृह्यते, ते एव द्वयोर्वादिप्रतिवादिनोर्निग्रहस्थाने अतो ऽन्यथा निग्रहकरणमन्याय्यमेव, प्रतिज्ञाहान्यादिषु तत्प्रभेदेषु च प्रतिपदमयुक्ततां दर्श: यिष्यति, कति चिचात्र शिशुप्रलापप्राया निग्रहस्थानानि निर्दिष्टानि, साहंशि शास्त्रे लक्ष्यन्त इति परममप्रतिष्ठानम्,
अत्रोच्यते संक्षेपविवक्षया द्वे एव निग्रहस्थाने इति वयमपि किं नोक्तवन्तो विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानमिति एतच्च सामान्यलक्षणमखिलभेदसंग्रहतमं भवति न भवदुक्तम्, तथा हि उत्तराप्रतिभानेन वादिप्रतिवादिनोरन्य
Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656