Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 593
________________ १७८ न्यायमअर्याम् . किंचिस्साधादुपसंहारः सिध्यति यथा गौरवमयं गवय इति न तु स. र्वथा रूपभेदस्तयोः कर्तुं शक्यः, प्रमाणावगतस्वभावभेदानां भावानामितरे. तररूपसंकरस्य कर्तुमशक्यत्वात्, एवं स्वप्रतिबिम्बसामर्थ्यसुस्थिते स्वसाध्य. मुत्थापयति स्थापनाहेतौ साध्यदृष्टान्तयोधर्मविकल्पमापादयता वैधयं च किं चिदभिदधता प्रतिषेधः कतु लभ्यत इति । अथ षष्ठस्योत्तरम्साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ गौ. अ. ५ आ. १.६ । __यदुच्यते घटोऽपि शब्दवत्साध्यो भवत्विति तन्नैवम्, लौकिकपरीक्ष काणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः तेनाविपरीततया शब्दोऽतिदिश्यते यथा घटः प्रयत्नानन्तरीयकः सन्ननित्यः एवं शब्दो ऽपीति, एवं साध्याति. देशाद् दृष्टान्त उपपद्यमाने न तस्य साध्यत्वाभिधानमुपपद्यते । प्राप्त्यप्राप्तिसमयोर्लक्षणेप्राप्य साध्यममाप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्यासाधक त्वाच्च प्राप्त्यप्राप्तिसमौ ॥ गौ. अ. ५ आ. १ सू ७ । प्राप्त्यप्राप्तिविकल्पनपूर्वकमुभयत्रापि दोषापादनं प्राप्त्यप्राप्तिसमौ प्रतिषेधौ भवतः, हेतौ साधनवादिना प्रयुक्ते पर आह-सो ऽयं हेतुः प्राप्य वा साध्यं साध्ययेदप्राप्य वा? प्राप्य चेद् द्वयोर्लब्धस्वरूपयोरप्राप्तिर्भवतीति किं कस्य साध्यं साधनं वेत्यविशेषः, अप्राप्य तु साधकत्वमनुपपन्नमतिप्रसङ्गात् , न ह्यप्राप्य प्रदीपः प्रकाश्यं प्रकाशयतीति । अनयोरुत्तरम्- घटादिनिष्पत्तेः पीडने चाभिचारादप्रतिषेधः ॥ गौ. अ५ आ. १ सू.८ । नायं प्रतिषेध उपपद्यते उभयथाऽपि कारणस्य भावदर्शनात् दण्डचक्रसू. त्रादिकारकाणि प्राप्य मृदं घटादिकाय निष्पादयन्ति दृश्यन्ते अभिचारकर्मणा च श्येनादिना दूरस्थस्यापि शत्रोः पीडनं सम्पाद्यत इति । प्रसङ्गप्रतिदृष्टान्तसमयोर्लक्षणेदृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्ते प्रसा. प्रतिदृष्टान्तसमौ ॥ गौ. अ. ५ आ. १सू . ९ । अत्र प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः, पूर्वोदाहृत एव हेतो यद्यनित्यत्वे प्रयत्नानन्तरीयकत्वं साधनं प्रयत्नानन्तरीयकत्व इदानीं किं साधनं तत्साधने किमिति दृष्टान्तस्य घटादेरनित्यतायां कारणं किं चिदपदिश्यते तेन


Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656